________________
प्रतिपत्तिः - ५,
४५५ 'सुहुमअपज्जत्तएणंभंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम!जधन्यतोऽन्तर्मुहूर्तमुत्कपतोऽप्यन्तर्मुहूर्तम्, अपर्याप्तस्थावरस्यैतावत्कालप्रमाणत्वात्, एवं सूक्ष्मापर्याप्तपृथिव्यादिविषयाऽपि षट्सूत्री तक्तव्या एवं पर्याप्तविषयाऽपि सप्तसूत्री।
मू. (३५४) सुहमस्सणं भंते! केवतियंकालं अंतरंहोति?, गोयमा! जहन्नेणं अंतीमु० उको० असंखेनं कालं कालओ असंखेजाओ उस्सप्पिणीओसप्पिणीओ खेतओ अंगुलस्स असंखेजतिभागो, सुहुमवणस्पतिकायस्स सुहुमनिओयस्सवि जाव असंखेजइभागो । पुढविकाइयादीणं वणस्सतिकालो । एवं अपज्जत्तगाणं पजत्तगाणवि ।।
वृ. साम्प्रतमन्तरं चिचिन्तयिषुराह-'सुहुमस्सण मित्यादि प्रश्नसूत्रं सुगम, भगवानाहगौतम! जघन्येनान्तर्मुहूर्त, सूक्ष्मादुद्ध त्यबादरपृथिव्यादावन्तर्मुहूर्तस्थित्वा भूयः सूक्ष्मपृथिव्यादौ कस्याप्युत्पादात्, उत्कर्षतोऽसङ्घयेयं कालं, तमेवासङ्खयेयं कालं कालक्षेत्राभ्यां निरूपयतिअसङ्घयेया उत्सर्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽङ्गुलस्यासङ्घयेयो भागः, किमुक्तं भवति? -अङ्गुलमात्रक्षेत्रस्यासङ्ख्येयतमे भागे ये आकाशप्रदेशास्ते प्रतिसमयमेकैकप्रदेशापहारे यावतीभिरुत्सर्पिण्यवसर्पिणीभिर्निर्लेपा भवन्ति तावत्य इति ।
'सुहुमपुढविक्काइयस्सणं भंते!' इत्यादि प्रश्नसूत्रंसुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽनन्तं कालं, 'जाव आवलियाए असंखिज्जइभागो' इति यावत्करणादेवंपरिपूर्णपाठः-'अनंताओ उस्सप्पिणीओसप्पिणीओकालतोखेत्ततो अनंतालोगा असंखेज्जा पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो' अस्य व्याख्या पूर्ववत्, भावना त्वेवम्-सूक्ष्मपृथिवीकायिको हि सूक्ष्मपृथिवीकायिकभवादुद्ध त्यानन्तर्येण पारम्पर्येण वा वनस्पतिष्वपिमध्ये गच्छतितत्रचोत्कर्षत एतावन्तं कालं तिष्ठतीति भवति यथोक्तप्रमाणमन्तरं, एवं सूक्ष्माप्कायिकतेजस्कायिकवायुकायिकसूत्राण्यपि वक्तव्यानि।
सूक्ष्मवनस्पतिपाकियसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्खयेयं कालं, स चासङ्खयेयः कालः पृथिवीकालो वक्तव्यः, स चैवम्-'असंखेजा उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति, सूक्ष्मवनस्पतिकायभवादुद्ध तो हि बादरवनस्पतिषुसूक्ष्मबादरपृथिव्यादिषु चोत्पद्यते तत्र च सर्वत्राप्युत्कर्षतोऽप्येतावन्तं कालमवस्थानमिति यथोक्तप्रमाणमेवान्तरं, एवं सूक्ष्मनिगोदस्याप्यन्तरं वक्तव्यं, यथा चेयमौधिकी सप्तसूत्री उक्ता तथाऽपर्याप्तविषया सप्तसूत्री पर्याप्तविषया च सप्तसूत्री वक्तव्या, नानात्वाभावात् । सामप्रतमेतेषामल्पबहुत्वमाह
मू. (३५५) एवं अप्पाबहुगं, सब्वत्थोवा सुहुमतेउकाइया सुहमपुढविकाइयाविसेसाहिया सुहमआउवाऊ विसेसाहिया सुहमनिओया असंखेजगुणा सुहुमवणस्सतिकाइया अनंतगुणा सुहमा विसेसाहिया, एवं अपजत्तगाणं, पजत्तगाणवि एवं चेव।
एतेसिणं भंते ! सुहमाणं पजत्तापजत्ताणं कयरे ?, सव्वत्थोवा सुहुमा अपजत्तगा संखेजगुणा पञ्जत्तगा एवं जाव सुहुमनिगोया। एएसिणं भंते ! सुहुमाणं सुहुमपुढविकाइयाणं जाव सुहुमनिओयाण य पञ्जत्तापजत्ता० कयरे २ ?
सव्वत्थोवा सुहुमतेउकाइया अपजत्तगा सुहुमपुढविकाइया अपज्जत्तगा विसेसाहिया सुहुमआउअपज्जत्ता विसेसाहिया सुहुमवाउअपजत्ता विसेसाहिया सुहुमतेउकाइया पञ्जत्तगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org