________________
४५४
जीवाजीवाभिगमउपाङ्गसूत्रम् ५ /-/ ३५२
सातव्यम्, अन्यथोत्कर्षायोगात् । एवं सूक्ष्मपृथिवीकायाप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायसूक्ष्मनिगोदविषयाण्यपि षट् सूत्राणि वक्तव्यानि, अथ सूक्ष्मवनस्पतिर्निगोदा एव ततस्तत्सूत्रेणैव गतमिति किमर्थं पृथग् निगोदसूत्रं ?, तदयुक्तं सम्यग्वस्तुतत्वापरिज्ञानात्, सूक्ष्मवनस्पतयो हि जीवा विक्षिताः, सूक्ष्मनिगोदास्तु प्रत्येकमननतानां जीवानामाधारभूताः शरीररूपास्ततो न कश्चिद्दोषः, उक्तञ्च --
119 11
"गोला य असंखेज्जा असंखनिगोदो य गोलओ भणिओ । एक्किक्कंमि निगोए अनंतजीवा मुणेयव्या ॥ एगो असंखभागो वट्ट उव्वट्टणोववामि । एगनिगोदे निच्चं एवं सेसेसुचि स एव ॥ अंतोमुहुत्तमेत्तं ठिई निगोयाण जंति निद्दिट्ठा । पल्लवंति निगोया तम्हा अंतोमुहुत्तेणं ॥
आसामक्षरगमनिका सूक्ष्मनिगोदैः सकल एव लोकः सर्वतो व्याप्तोऽञ्जनचूर्णपूर्णसमुद्गवत्, तस्मिन्नित्थं निगोदैव्यार्पतै लोके निगोदमात्रावगाहना असङ्घयेया निगोदा वृत्ताकारा बृहत्प्रमाणा गोलका इति व्यपदिश्यन्ते, निगोद इति च नाम अनन्तानां जीवानामेकं शरीरं, तत उक्तम्- असङ्ख्येया गोलाः, एकैकस्मिंश्च गोलकेऽसङ्घयेया निगोदा एकैकश्च निगोदः अनन्तजीव इति, एकस्मिंश्च निगोदे येऽनन्ता जीवास्तेषामेकोऽसङ्घयेयतमो भागः प्रतिसमयमुद्वर्त्ततेऽन्यश्चोत्पद्यते, तथा हि विवक्षिते समये विवक्षितस्य निगोदस्यैकोऽसङ्घयेयतमो भाग उद्वर्त्ततेऽन्यश्चासङ्घयेयतमो भागस्तस्मिन्नपूर्व उत्पद्यते, द्वितीयेऽपि समयेऽन्योऽसङ्घयेयभाग उद्वर्त्तते अन्यश्चापूर्व उत्पद्यते, एवं सकलकालमनुसमयमुद्वर्त्तनोपपातौ, अत एव 'एगनिगोदे निच्च' मिति नित्यग्रहणं, यथा चैकस्मिन्निगोदे तथा सर्वेष्वप्यसङ्घयेयेषु सर्वलोकव्यापिषु निगोदेषु प्रतिपत्तव्यं, सर्वेषामपि च निगोदानां निगोदजीवानां स्थितिर्विनिर्दिष्टशऽन्तर्मुहूर्तमात्रं तस्मात्सर्वेऽपि निगोदा अनुसमयमुद्वर्त्तनोत्पाताभ्यामन्तर्मुहूर्त्तमात्रेण परावर्त्तन्ते न च शून्या भवन्तीति ।
एवं सप्तसूत्री अफर्याप्तविषया सप्तसूत्री पर्याप्तविषया वक्त्या, सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम् ॥ सम्प्रति कायस्थितिमाह
मू. (३५३) सुहुमे णं भंते! सुहुमेत्ति कालतो केवचिरं होति ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जकालं जाव असंखेज्जा लोया, सव्वेसिं पुढविकालो जाव सुहुमनि ओयस्स पुढविक्कालो, अपजत्तगाणं सव्वेसिं जहन्नेणवि उक्कोसेणचि अंतोमुहुत्तं, एवं पज्जत्तगाणवि सव्वेसिं जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं ।
॥२॥
॥३॥
-
वृ. 'सुहुमे णं भंते! सुहुमेत्तिकालओ' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तम्, अन्तर्मुहूर्त्तानन्तरं बादरपृथिव्यादावुत्पादात्, उत्कर्षतोऽसङ्घयेयकालं, तमेवासङ्घयेयकालं कालक्षेत्राभ्यां निरूपयति- असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, एषा कालतो मार्गणा क्षेत्रतोऽसङ्घयेया लोकाः, असङ्ख्येयानां लोकाकाशानां प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन निर्लेपता भवति तावान् असङ्ख्येयः काल इति भावः । एवं सूक्ष्मपृथिव्यप्तेजोवायुवनस्पतिनिगोदसूत्राण्यपि भावनीयानि । सम्प्रति सूक्ष्मादीनामेवापर्याप्तानां कास्थितिमधित्सुराह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org