SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४५६ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/३५५ संखेजगुणा सुहमपुढविआउवाउपजत्तगा विसेसाहिया सुहुमनिओया अपजतगा असंखेज्जगुणा सुहुमनिओया पञ्जत्तगा संखेजगुणा सुहुमवणस्सतिकाइया अपजत्तगा अनंतगुणा सुहुमअपजत्ता विसेसाहिया सुहुमवणस्सइपजत्तगा संखेजगुणा सुहमा पञ्जत्ता विसेसाहिया ।। वृ. 'एएसि ण मित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिकाः, असङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशपरिमाणत्वात्, तेभ्यः सूक्ष्मा कायिका विशेषाधिकाः, प्रभूततरासङ्खयेयलोकाकाशप्रमाणत्वात्, तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासङ्घयेयलोकाकाशप्रदेशराशिमानत्वात, तेभ्यः सूक्ष्मनिगोदा असङ्ख्येयगुणाः, तेषां प्रतिगोलकमसङ्खयेयत्वात्, तेभ्यःसूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानांसद्भावात्, तेभ्यःसामान्यतःसूक्ष्मा विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात्, तेषामौधिकानामिदमल्पबहुत्वम् । इदानीमेतेषामेवापर्याप्तानामाह–'एएसिणं भंते ! सुहुमअपज्जत्ताण मित्यादि सर्वं प्राग्वद्भावनीयं । साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-'एएसिणं भंते! सुहमपज्जत्तगाण'मित्यादि, इदमपि प्रागुक्तक्रमेणैव भावनीयं ।। अधुनाऽमीषामेव सूक्ष्मादीनांप्रत्येकंपर्याप्तपर्याप्तगतान्यल्पबहुत्वान्याह-'एएसि णं भंते ! सुहुमाणं पञ्जत्तगाणमित्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्तनिश्रया असङ्घयेयानामपर्याप्तानामुत्पादात्, तथा चोक्तं प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे-“पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, सूक्ष्मेषु पुनर्नायंक्रमः, पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो लभ्यन्ते तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः तेभ्यः सूक्ष्माः पर्याप्तकाः सङ्घयेयगुणाः, एवं पृथ्वीकायादिष्वपि प्रत्येकं भावनीयम्॥ ___ गतं चतुर्थमल्पबहुत्वमिदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तानांपञ्चममल्पबहुत्वमाह'एएसि ण'मित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्य सूक्ष्मपृथिव्यबवायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सङ्घयेयगुणाः, अपयप्तिभ्यः पर्याप्तानांसङ्खयेयगुणानामेव भावितत्वात्, तेभ्यः सूक्ष्मपृथिव्यबवायवः पर्याप्ताःक्रमेण विशेषाधिकाः, कारणंप्रागेवोक्तं, ततः सूक्ष्मनिगोदा अपर्याप्ता असङ्खयेयगुणास्तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मा निगोदाः पर्याप्ताः सङ्खयेयगुणाः, सूक्ष्मेष्वपयप्तिभ्यः पर्याप्तानामोघतः सङ्खयेयगुणत्वात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता अनन्तगुणाः,प्रतिनिगोदमनन्तानां तेषां भावात्, तेभ्यः सामान्यतः सूक्ष्माअपर्याप्ता विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्घयेयगुणाः, सूक्ष्मेषु हि अपर्याप्तेभ्यः पर्याप्ताः सञ्जयेयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सङ्घयेयगुणत्वव्याधातः, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । सम्प्रति बादरादीनां स्थित्यादि निरूपयति मू. (३५६) बायरस्सणंभंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं अंतोमु० उको० तेत्तीसं सागरोवमाइं ठिई प० एवं बायरतसकाइयस्सवि बायरपुढवीकाइयस्स बावीसवाससहस्साईबायरआउस्स सत्तवाससहस्सं बायरतेउस्स तिन्नि राइंदिया बायरवाउस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy