________________
-
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-२/३३० 'आणयपाणयआरणअचुएसु' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! आनतप्राणतारणाच्युतेषु कल्पेषु देवा असङ्खयेयाः, ते च समये समये एकैकापहारेणापहियमाणाः पल्योपमस्य-क्षेत्रपल्योपमस्य सूक्ष्मस्यासमयेयभागमात्रेण कलेनापहियन्ते, किमुक्तं भवति ?~ सूक्ष्मक्षेत्रपल्योपमासङ्खयेयभागे यावन्तः समयास्तावप्रमाणास्ते भवन्तीति, एवं ग्रैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः ।
सम्प्रति शरीरावगाहनामानप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं मंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां "किंमहालया' इति किं महती शरीरावगाहना प्रज्ञप्ता?, भगवानाह-गौतम ! द्विविधा प्रज्ञप्ता, तद्यथा-भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीयासाजघन्यतोऽङ्गुलासङ्घयेयामागमात्रा उत्कर्षतः सप्तरलयः, तत्रया सा उत्तरवैक्रिया साजघन्यतोऽ-कुलस्य सङ्घयेया भागंयावत् न त्वसङ्खयेय तथाविधप्रयत्नाभावात्, उत्कर्षत एक योजनशतसहनं, एवंतावद्वाच्ययावदच्युतकल्पो, नवरंसनत्कुमारमाहेन्द्रयोरुत्कर्षतोभवधारणीया षड्रलयः, ब्रह्मलोकलान्तकेषुपञ्च, महाशुक्रसहमूरयोश्चत्वारः,आनतप्राणतारणाच्युतेषुत्रयः, 'गेवेजगदेवाणं भंते !' इत्यादि, ग्रैवेयकदेवानां भदन्त ! किंमहती शरीरावगाहना प्रज्ञप्ता ?, भगवानाह- गौतम ! ग्रैवेयकदेवानामेकं भवधारणीयं शरीरं प्रज्ञप्तं न तूत्तरवैक्रय, शक्ती सत्यामपि प्रयोज-नाभावात्तदकरणात, तदपि च भवधारणीयं जघन्यतोऽङ्गुलासङ्खयेयभागमात्रमुत्कर्षतोद्वौरली, एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एकारलिरिति वाच्यम्
मू. (३३१) सोहम्मीसाणेसुणं देवाणं सरीरगा किंसंघ्रयणी पन्नत्ता?, गोयमा ! छण्हं संघयणाणं असंघयणी पन्नत्ता ?, नेवढि नेव छिरा नवि हारूणेव संघयणमत्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघातत्ताए परिणमंति जाव अनुतरोववातिया।
सोहम्मीसाणेसुदेवाणंसरीरंगा किंसंठितापन्नता?, गोयमा! दुविहा सरीरा-भवधारणिज्जा य उत्तरवेउब्विया य, तत्य णंजे ते भवधारणिजा ते समचउरंससंठाणसंठिता पन्नत्ता, तत्थ णं जे ते उत्तरवेउब्विया ते नानासंठाणसंठिया पन्नत्ता जाव अच्चुओ, अवेउब्विया गेविजणुत्तरा, भवधारणिज्जा समचउरंससंठाणसंठिता उत्तरवेउब्बिया नथि।
१. सम्प्रति संहनमधिकृत्याह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीराणि 'किंसंहननानि किं संहननं येषां तानि तथा प्रज्ञप्तानि?, भगवानाह--गौतम! षण्णां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहननस्यास्थिरचनात्मकत्वात् तेषांचास्थ्यादीनासम्भवात्, तथा चाह-'नेवट्ठी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि शिरा-ग्रीवाधमनिर्नापि स्नायूंषि-शेषं शिराजालं, किन्तु ये पुद्गला इष्टाः कान्ताः प्रिया मनोज्ञा मनआपतरा एतेषां व्याख्यानं प्राग्वत् ते तेषां सङ्घाततया परिममन्ति ततः संहननाभावः, एवं तावद्वाच्यं यावदनुत्तरोपपातिकानं देवानां । सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसाणेसु' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! तेषां शरीरकाणि द्विविधानि प्रज्ञप्तानि, तद्यथाभवधारणीयानि उत्तरवैक्रियापिच, तत्र यद् भवधारणीयं तत्समचतुरस्रसंस्थानसंस्थितं प्रज्ञाप्त, देवानां भवप्रत्ययतः प्रायःशुभनाम-कर्मोदयभावात्, तत्र यदुत्तरवैक्रयतत्नानासंस्थानसंस्थितं प्रज्ञप्तं, तस्येच्छया निवर्त्यमानत्वात्, एवंतावद्वक्तव्यंयावदच्युतः कल्पः, 'गेविज्जगदेवाणमित्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org