SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्ति:- ३, वै० - उद्देशकः २ ४३७ किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते' इदं च पूर्ववद् भावनीयं, देवो ना महर्द्धिको यावन्महाभागः यावत्करणात् महाद्युतिक इत्यादिपरिग्रहः । 'जाव इणामेव' 'इणामेवे’ति यावदिदानीमेव, अनेन चप्पुटिकात्रयानुकरणपुरस्सरम्यन्तं कालस्तोकत्वं इतिकृत्वा केवलल्पं- परिपूर्णं जम्बूद्वीपं द्वीपं त्रिभिरप्सरोनिपातैः - तिसृभिश्चपुटिकाभिरित्यर्थ त्रिसप्तकृत्वः - एकविंशतिवारान् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य 'हवं' शीघ्रमागच्छेत् 'सेणं देवे' इत्यादि, स देवस्तया सकलदेवजनप्रसिद्धया पूर्वध्ष्टान्तभावितया 'उत्कृष्टया' अतिशायिन्या तुरियाए चक्लाए चंडाए सिग्धाए उद्धयाए जवणाए छेयाए अमीषां पदानां व्याख्यानं पूर्ववत्, 'दिव्यया' देवगत्या व्यतिव्रजन् यावदेकाहं वा द्वयहंवा उत्कर्षतः षण्मासान्व्यतिव्रजन् तत्रास्त्येककं विमानं यद् व्यतिव्रजेत् अस्त्येककं विमानं यन्न व्यतिव्रजेत्, 'एवंमहालिया णं' एतावंति महान्ति गौतम ! विमानानि प्रज्ञप्तानि एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । 'सोहम्मीसाणेसु ण' मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि किंमयानि प्रज्ञतानि ?, भगवानाह - गौतम ! सर्वात्मना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि । 'तत्थ ण' मित्यादि, तत्र तेषु विमानेषु बहवो जीवाः - पृथ्वीकायरूपाः पुद्गलाश्च 'अपक्रामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते, तथा 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमुपगच्छन्ति, एतत् पुद्गलापेक्षं विशेषणं, पुद्गलानामेव चयोपचयधर्मकत्वात्, शाश्वतानि भदन्त ! विमानानि द्रव्यार्थतया प्रज्ञप्तानि ?, वर्णपर्यायै रसपर्यायैर्गन्धपर्यायैः स्शपर्यायैरशाश्वतानि प्रज्ञप्तानि, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कुतो योनेरुद्धत्योत्पद्यन्ते ? किं नैरयिकेभ्यः ? इत्यादि यथा 'व्युत्क्रान्ती' व्युकान्त्याख्ये षष्ठे पदे प्रज्ञपनायां तथा वक्तव्यं यावदनुत्तरोपपातिका देवाः, इह तु ग्रन्थगौरवभयान्न लिख्यते भूयान् हि स ग्रन्थः सम्प्रति कियन्त एकस्मिन् समये उत्पद्यन्ते ? इति निरूपणार्थमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात्, कियन्त उत्पद्यन्ते ?, भगवानाह - गौतम ! जघन्येन एको द्वौ वा त्रयो वा, उत्कर्षतः सङ्घयेया वाऽसङ्घयेया वा तिरश्चामपि गर्भजपञ्चेन्द्रियाणां तत्रोत्पादात्, एवं तावद्वक्तव्यं यावत्सहस्ररकल्पः, 'आणयदेवा णं भंते !" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनैको द्वौ त्रयो वा उत्कर्षतः सङ्घयेयाः, मनुष्यणामेव तत्रोत्पादात् तेषां कोटीकोटीप्रमाणत्वात् एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ॥ सम्प्रति कालतोऽपहारतः परिमाणमाह- 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः समये समये एकैकदेवापहारेणापहियमाणा अहियमाणाः कियता कालेनापहियन्ते ?, भगवानाह - गौतम ! असङ्घयेयास्ते देवाः समये समये एकैकदेवापहारेणापहियमाणाः २ असङ्खयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एतावता किमुक्तं भवति ? - असङ्घयेयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावव्यमाणाः सौधर्मेशानदेवा इति, एवमुत्तरत्रापि भावना भावनीया, एतच्च कल्पनामात्रं परिमाणावधारणार्थमुक्तं न पुनस्ते कदाचनापि केनाप्यपहृताः स्यु तथा चाह- 'नो चेवणं अवहिया सिया' एवं निरन्तरं यावद्वक्तव्यं यावत्सहस्रारकल्पदेवाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy