SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/०-२/३३० कृष्णनीलहारिद्रवर्णाभावात्, आनतप्राणतारणाच्युतकल्पेषुएकवर्णानि, सुक्लवर्णस्यैकस्य भावात्, ग्रैवेयकविमानानि अनुत्तरविमानानि च परमशुक्लानि, उक्तञ्च"सोहम्मि पंचवण्णा एकगहीणा उ जा सहस्सारे । दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ।।” || 9 || सम्प्रति प्रभाप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु ण' मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि की ध्शानि प्रभया प्रज्ञप्तानि ?, कीशी तेषां प्रभा प्रज्ञप्तेति भावः, भगवानाह - गौतम ! प्रभया प्रज्ञप्तानि 'नित्यालोकानि' नित्यलोको - दर्शन ६श्यमानता येषां तानि नित्यालोकानि न तुजातुचिदपि तमसाऽऽ श्रीयन्त इति भावः, कथं नित्यालोकानि ? इति हेतुद्वारेण विशेषणमाहनित्योदद्योतानि, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति हेतोः प्रथमा, ततोऽयमर्थः - यस्मान्नित्यं सततमप्रतिधमुद्योतो- दीप्यमानता येषां तानि (तथा) ततो नित्यालोकानि, सततमुद्योतमानता च परसापेक्षाऽपि संभाव्येत यथा मेरोः स्फटिककाण्डस्य सूर्यरश्मिसम्पर्कतः, तत आह- स्वयंप्रभाणि स्वयं सूर्यादिप्रभावत् देदीप्यमानता येषां तानि तथा, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सम्प्रति गन्धप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णं भंते! इत्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीद्दशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'से जहानामए कोट्ठपुडाण वा चंपकपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदनपुडाण वा उसीरपुडाण वा मरुयापुडाण वा आईपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा ण्हाणमज्जियापुडाण वा केयइपुडाण वा पाडलिपुडाण वा नोमालियापुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुवायंसि उब्मिजमाणाण वा कुट्टिजमाणाण वा रुविजमाणाण वा उक्कीरिजमाणाण वा विक्खरिजमाणाण वा परिभुजमाणाण वा परिभाइज्जमामाण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला मणुण्णा मनहरा घाणमणनिव्वुइकरा सव्वतो समंता गंधा अभिनिस्सरंति, भवे एयारूवे सिया ?, नो इणट्टे समट्टे, ते णं विमाणा एत्तो इट्ठतरा चैव कंततरा चेव मणुन्नतरा चेव मणामतरा चेव गंधेणं पन्नत्ता' अस्य व्याख्या पूर्ववत् एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सम्प्रति स्पर्शप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि की ध्शानि स्पर्शेन प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'से जहानामए अइणेइ वारूतेइ वा बूरेइ वा नवथीएइ वा हंसगब्भतूलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा भवे एयारूवे ?, नो इणट्टे समट्ठे, ते णं विमाणा इत्तो इट्ठतरा चैव कंततर, चेव मणुन्नतरा चेब मणामतरा चेव फासेणं पन्नत्ता' इति पूर्ववत्, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि सम्प्रति महत्वप्रतिपादनार्थमाह- 'सोहम्मीसाणेसु णं भंते! कप्पेसु' इत्यादि, सौधम्र्मेशानयोर्भदन्त ! कल्पयोर्विमानानि 'किंमहान्ति' किंप्रमाणमहत्वानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! 'अण्णं जंबुद्दीवे दीवे' इत्यादि जम्बूद्वीपवाक्यं परिपूर्णमेवं द्रष्टव्यं 'सव्वद्दीवसमुद्दाणं सव्वमंतराए सव्वखुड्डा वट्टे तेल्लापूपसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए एवं जोयणसयसहस्सं आयामविक्खंभेणं तिन्निय जोयणसयसहस्सा सोलस सहस्सा दो य सया सत्तावीसा तिन्नि य कोसे अट्ठावीसं धनुसयं तेरसय अंगुलाई अर्द्धगुलं Jain Education International For Private & Personal Use Only www.jainelibrary.org ४३६
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy