SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, जो० - ४१५ बहूनामपि निर्द्धार्ये इतरः, नक्षत्रं सर्वाभ्यन्तरं सर्वेषामन्येषां नक्षत्राणामभ्यन्तरं 'चार' मण्डलगत्या परिभ्रमणं चरति ? कतरत् नक्षत्रं 'सर्वबाह्यं' सर्वेषां नक्षत्रामां बहिर्वर्त्तिनं चारं 'चरति' प्रतिपद्यते कतरत् नक्षत्रं 'सर्वोपरितनं' सर्वेषां नक्षत्राणामुपरितनं चारं चरति ?, कतरत् नक्षत्रं सर्वाघस्तनं चारं चरति ?, भग० गौ० अभिजिनक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूलः पुनर्नक्षत्रं सर्वबाह्यं चारं चरति, स्वातिर्नक्षतरं सर्वोपरितन चारं चरति, भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, उक्तञ्च"सव्वब्मितर भीई मूलो पुण सव्वबाहिरो होइ । सव्वोवरिं तु साई भरणी पुण सव्वहेट्ठिलिया ।" 119 11 मू. (३१४) चंदविमाणे णं भंते! किंसंठिते पन्नत्ते ?, गोयमा ! अद्धकविदुगसंठाणसंठिते सव्वफालितामए अब्भुगतमूसितपहसिते वण्णओ, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकविट्ठसंठाणसंठिते । चंदविमाणे णं भंते! केवतियं आयामविक्खंभेणं ? केवतियं परिक्खेवेणं ? केवतियं बाहल्लेणं पन्नत्ते ?, गोयमा ! छप्पन्ने एगसट्ठिभागे जोयणसस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसट्टिभागे जोयणस्स बाहल्लेणं पन्नत्ते । सूरविमाणस्सवि सच्चैव पुच्छा, गोयमा ! अडयालीसं एगसट्टिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्ख्वेणं चउवीस एगसट्टिभागे जोयणस्स बाहल्लेणं पत्रत्ते । एवं हविमाणेवि अद्धजोयणं आयामविक्खंभेणं सविसेसं परि० कोसं बाहल्लेणं प० तारावि० अद्धको आयामविक्खंभेणं तं तिगुणं सविसेसं परि० पंचधणुसयाई बाहल्लेणं प े वृ. 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं भदन्त ! 'किंसंस्थितं' किमिव संस्थितं २ प्रज्ञप्तम् ?, भगवानाह - गौतम ! 'अर्द्धकपित्थसंस्थानसंस्थितम्' उत्तानीकृतमर्द्धकपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितं तत उदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्द्धकपित्थफलाकारं नोपलभ्यते ?, कामं शिरस उपरि वर्त्तमानं वर्त्तुलमुपलभ्यते, अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वात्, उच्यते, इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं, किन्तु यस्य विमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य - ज्योतिश्चक्रराजस्य प्रासादः, स च परासादस्तथा कथञ्चनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः, न चैतत् स्वमनीषिकाया विजृम्भितं, यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम् 119 11 "अद्धकविट्ठागारा उदयत्यमणंमि कह न दीसंति । ससिसूराण विमाणा तिरियक्खेत्ते ठियाणं च ।। उत्ताणद्धकविट्ठागारं पीढं तदुवरिं च पासाओ । वाखेण ततो समवट्ट दूरभावातो ॥ ॥२॥ तथा सर्वं निरवशेषं स्फटिकविशेषमणिमयं सर्वस्फटिकमयं तथाऽभ्युद्गताआभिमुख्येन सर्वतो विनिर्गता उत्सृताः - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy