________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / जो० / ३१४ अभ्युद्गतोत्सृतप्रभासितं यावत्करणात् 'विविहमणिरयणभत्तिचित्ते वाउयविजयवेजयन्ती पडागछत्तातिछत्तकलिए तुंगे गगनतलमणुलिहंतसिहरे जालंतररयणपंजलोम्मीलियमणिकणगधूभियागे वियसियसयवत्तपुंडरीयतिलगरयणद्धचंदचित्ते अंतो बहिं च सण्हे तवणिज्जवालुयापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे' इति, तत्र विविधा - अनेकप्रकारा मणयः - चन्द्रकान्तादयो रत्नानि च-कर्केतनादीनि तेषां भक्तयो विच्छित्तिविशेषास्ताभिश्चित्रंअनेकरूपवद् आश्चर्यवद्वा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्भूता वायुकम्पिता विजयः---अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधानाः पताका विजयवैजयन्त्यः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तठाधाना वैजयन्त्यो विजयवैजयन्त्यः -- पताकास्ता एव विजयवर्जिता वैजयन्त्यः ।
४१६
छत्रातिच्छत्राणि उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्धूतविजयवेजयन्तीपताकाकलितं तुङ्गं - उच्चम् अत एव 'गगनतलमणुलिहंत सिहरं' गगनतलमनुलिखद्-अभिलङ्घयद् गगनतलानुलिखच्छिखरं, तथा जालानि - जालकानि तानि च मनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभनिमित्तं रत्नानि यत्र तज्जालान्तररत्नं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जराद् उन्मीलितमिव - बहिष्कृतमिव पञ्जरोन्मीलितमिव यथा हि किल किमपि वस्तु पञ्जराद्वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते तथा तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका- शिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादी प्रतिकृतित्वेन स्थितानि तिलकाश्चमित्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रम्, 'अंतो बहिं च सण्हे' इत्यादि अञ्जनपर्वतोपरिसिद्धायतनद्वारवत् ।
'एवं सूरविमाणेवी' त्यादि, एवं चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं ग्रहविमानमपि नक्षत्रविमानमपि ताराविमामपि, ज्योतिर्विमानानां प्राय एकरूपत्वात् ।
'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं भदन्त ! कियदायामविष्कम्पेन कियत्परिक्षेपेण कियद्वाहल्येन प्रज्ञप्तम् ?, भगवानाह - गौतम ! षट्पञ्चाशतमेकष्टिभागान् योजनास्यायाविष्कम्भेन, तहेवायामविष्कम्भमानं त्रिगुणं सविशेषं परिक्षेपेणं, अथविंशतिमेकषष्टिभागानू योजनस्य बाहल्येन प्रज्ञप्तम् ॥ 'सूरविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत्, भगवानाह - गौतम ! अष्टचत्वारिंशतकषष्टिभागान योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं सविशेषं परिक्षेपेण, चतुर्विंशतिमेकषष्टिभागान् योजनस्य बाहल्येन ।
'गहविमाणे णं भंते !' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौ० अर्द्धयोजनमायामविष्कम्भेन तदेवार्द्धयोजनं त्रिगुणं सविशेषं परिक्षेपेण क्रोशं बाहल्येन ।
'नक्खत्तविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौ० क्रोशमेकमायामविष्कम्पेन तदेवायामविष्कम्भपरिमाणं त्रिगुणं सविशेषं परिक्षेपेण अर्द्धक्रोशं च बाहल्येन प्र० 'ताराविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौतम! अर्द्धक्रोशमायामविष्कम्भेन तदेवायामविष्कम्भायामपरिमाणं त्रिगुणं सविशेषं परिक्षेपेण, पञ्चधनुःशतानि बाहल्येन प्रज्ञप्तम्, एवंपरिमाणंच ताराविमानमुत्कृष्टस्थितिकस्य तारदेवस्य सम्बन्धि द्रव्यं, जघन्यस्थिकस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org