SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४१४ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / जो० / ३१२ दसुत्तरसतजोयणबाहल्ले तिरियमसंखेज्जे जोतिसबिसए पन्नत्ते ॥ बृ. 'जंबूदीवे ण' मित्यादि जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य सकलतिर्यग्लोकमध्यवर्त्तिनं कियत्क्षेत्रमबाधया सर्वतः कृत्वा 'ज्योतिषं' ज्योतिश्चक्र 'चारं चरति' मण्डलगत्या परिभ्रमति भगवानाह - गौतम ! एकादश योजनशतानि 'एकविंशानि ' एकविंशत्यधिकानि अबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ? - मेरोः सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्त्वा तदनन्तरं चक्रवालतया ज्योतिश्चक्र चारं चरति ।। 'लोगंताओ णं भंते!' इत्यादि लोकान्तादर्वाग् णमिति वाक्यालङ्कारे भदन्त ! कियत्क्षेत्रमबाधया अपान्तराले कृत्वा ज्योतिषं प्रज्ञप्तम् ?, भगवानाह - गौ० एकादश योजनशतानि 'एकादशानि' एकादशोत्तराण्यबाधया कृत्वा ज्योतिषं प्रज्ञप्तम् 'इमीसे णं भंते!' इत्यादि, 'अस्यां ' यत्र वयंव्यवस्थिता रत्नप्रभायां पृथिव्यां बहुसमरमणीयात् भूमिभागात् आरभ्य कियदबाधया कृत्वाऽधस्तनं तारारूपं ज्योतिषं चारं चरति ?, कियदबाधया कृत्वा सूर्यविमानं चारं चरति ?, कियदबाधया कृत्वा चन्द्रविमानं, कियदबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति ?, भगवानाह - गौतम! सप्त योजनशतानि नवत्यधिकान्यबाधया कृत्वाऽघस्तनं तारारूपं चारं चरति, अष्ट योजनशतान्यबाधया कृत्वा सूर्यविमानं, अष्टौ योजन - शतान्यशीतान्यबाधया कृत्वा चन्द्रविमानं, जव योजनशतानि पूर्णान्यबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति । हेट्ठिल्लाओणं भंते!' इत्यादि, अघस्तनाद् भदन्त ! तारारूपात् कियदबाधया कृत्वा सूर्यविमानं चारं चरति ? कियदबाधया कृत्वा चन्द्रविमानं चारं चरति ? कियदबाधयोपरितनं तारारूपम् ?, भगवानाह - गौ० दश योजनान्यबाधया कृत्वा सूर्यविमानं चारं चरति, तत एवाघस्तनात्तारारूवान्नवतिं जनान्यबाधया कृत्वा चन्द्रविमानं तत एवाघस्तनात्तारारूपाद्दशोत्तरं योजनशतमबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति । 'सूरविमाणाओ णं भंते!' इत्यादि, सूर्यविमानाद् भदन्त ! कियदबाधया कृत्वा चन्द्रविमानं चारं चरति ?, कियदबाघयोपरितनं तारारूपम् ?, भग०- गौ० अशीति योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्याविमानाद्योजनशतमबाधया कृत्वोपरितनं तारारूपम् 'चंदविमाणाओ णं भंते!' इत्यादि, चन्द्रविमानाद्भदन्त ! कियदबाधया कृत्वोपरितन तारारूपं चारं चरति ? भगवानाह - गौतम ! अशीतिं योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्यविमानाद्योजनशतमबाधया कृत्वोपरितनं तारारूपम् । 'चंदविमाणाओ णं भंते !' इत्यादि, चन्द्रविमानाद्भदन्त ! कियदबाधया कृत्वोपरितनं तारारूपं चारं चरति ?, भगवानाह - गौतम ! विंशतिर्योजनान्यबाधया कृत्वोपरितनं तारारूपं चारं चरति । मू. (३१३) जंबूदीवे णं भंते! कयरे नक्खत्ते सव्वब्भितरिल्लं चारं चरंति ? कयरे नक्खत्ते सव्वबाहिरिल्लं चारं चरइ ? कयरे नक्खत्ते सव्वउवरिल्लं चारं चरति ? कयरे नक्खत्ते सव्वहिट्ठिल्लं चारं चरति ? गो० जंबूदीवे णं दीवे अभी इनक्खते सव्वब्भितरिल्लं चारं चरति मूले नक्खत्ते सव्बाहिरिल्लं चारं चरइ साती नक्खत्ते सव्वोवरिल्लं चारं चरति भरणीनक्खत्ते सव्वहेट्ठिल्लं चारं चरति । वृ. 'जंबूदीवे णं भंते!' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कतरत्, 'बहूनां प्रश्ने डतमश्चे'ति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy