________________
४००
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२९४ स्तस्य चतुर्दिशि चतसृषु दिक्षु एकैकस्यादिशिएकैकनन्दापुष्करिणीभावेन चतस्रनन्दापुष्करिण्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशिनन्दिषेणा दक्षिणस्याममोघाअपरस्यांगोत्सूपा उत्तरस्या सुदर्शना, ताश्च पुष्करिण्य एक योजनशतसहस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वेशतेसप्तविंशत्यधिकेत्रीणि गव्यूतानि अष्टाविंशंधनुःशतंत्रयोदशाङ्गुलानि अर्धाङलं च किञ्चिद्विशेषाधिकंपरिक्षेपेण प्रज्ञप्ताः, दश योजनान्युद्वेधेन, 'अच्छाओ सहाओ रययामयकूलाओ' इत्यादि जगत्युपरिपुष्करिणीवन्निरवशेषं वक्तव्यं नवरं 'वट्टाओसमतीराओ खोदोदगपडिपुण्णाओ' इति विशेषः, ताश्च प्रत्येकं प्रत्येकं पद्मवरवेदिकया वनखण्डेन च परिक्षिप्ताः, अत्रापीदमन्यदधिकंपुस्तकान्तरे द्दश्यते-'तासिणं पुक्खरिणीणं पत्तेयं पत्तेयं चउद्दिसि चत्तारि वनसंडापन्नत्ता तंजहा-पुरच्छिमेमंदाहिणेणं अवरेणंउत्तरेणं, पुव्वेण असोगवणंजावचूयवणं उत्तरे पासे' एवं शेषाअनपर्वतसम्बन्धिनीनामपि नन्दापुष्करिणीनां वाच्यम्।
'तासिण'मित्यादि, तासांपुष्करिणीनां बहुमध्यदेशभागेप्रत्येकं २ दधिमुखनामा पर्वतः प्रज्ञप्तः, तेणमित्यादि, ते दधिमुखपर्वताश्चतुःषष्टिर्योजनसहस्राणि ऊर्द्धमुचैस्त्वेन एक योजनसहस्रमुद्वेधेन सर्वत्र समाः पल्यङ्कसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेनएकत्रिंशद् योजनसहस्राणिषट् त्रयोविंशानि' त्रयोविंशत्यधिकानियोजनशतानि परिक्षेपेण प्रज्ञप्ताः सर्वात्मना स्फटिकमयाअच्छा यावप्रतिरूपाः प्रत्येकंप्रत्येकं पद्मवरवेदिकयापरिक्षिप्ताःप्रत्येकंर वनखण्डेन परिक्षिप्ताः। तेसिण'मित्यादि, तेषां दधिमुखपर्वतानामुपरिप्रत्येकं २ बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य शब्दवर्णनं तावद्वक्तव्यं यावद्बहवो 'वानमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति' ॥ 'तेसि ण'मित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ सिद्धायतनं प्रज्ञप्तं, सिद्धायतनवक्तव्यता प्रमाणादिका अञ्जनपर्वतोपरिसिद्धायतनवद्वक्तव्या यावदष्टशतं प्रत्येकं प्रत्येकं धूपकडुच्छुकानामिति।
'तत्थ णंजे से दाहिणे अंजनगपव्वए' इत्यादि, दक्षिणाअनकपर्वतस्यापि पूर्वदिग्भाव्यअनकपर्वतस्येव निरवशेषं वक्तव्यं, नवरंनन्दापुष्करिणीनांनामनानात्वंतद्यथा-पूरवस्यांनन्दोत्तरा दक्षिणस्यांनन्दा अपरस्यामानन्दा उत्तरस्यां नन्दिवर्द्धना, शेषं तथैव ॥'तत्थ गंजे से पञ्चस्थिमिल्ले अंजनगपव्वतेतस्सणंचउद्दिसिंचत्तारि इत्यादि, पूर्वदिग्भाव्यञ्जनपर्वतस्येवपश्चिमदिग्भाव्यञ्जनपर्वतस्यापि वक्तव्यं यावप्रत्येकं प्रत्येकमष्टशतं धूपकडुच्छुकानां, नवरं नन्दापुष्करिणीनां नामनानात्वं, तद्यथा-पूर्वस्यादिशिभद्रादक्षिणस्यांविशालाअपरस्यांकुमुदाउत्तरस्यां पुण्डरीकिणी, शेषतथैव ।।एवमुत्तरदिग्भाव्यञ्जनकपर्वतेवक्तव्यं, नवरमत्रापिनन्दापुष्करिणीनांनामनानात्वं, तद्यथा--पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ता अपरस्यां जयन्ता उत्तरस्यामपराजिता, शेषं तथैव यावप्रत्येकं प्रत्येकमटशतंधूपकडुच्छुकानामिति।षोडशानामपिचामीषांवापीनामपान्तराले प्रत्येकं प्रत्येकं रतिकरपर्वती जिनभवमण्डितशिखरौ शास्त्रन्तरेऽभिहिताविति सर्वसङ्ख्यया नन्दीश्वरद्वीपे द्वापञ्चाशत् सिद्धायतनानि।
_ 'तत्थ णमित्यादि, 'तत्र' तेषु सिद्धायतनेषु णमिति पूर्ववत् बहवो भवनपतिवानमन्तरज्योतिष्कवैमानिका देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुषु जिनजन्मनिष्कमज्ञानोत्पादपरिनिर्वाणादिषुदेवकार्येषु देवसमितिषु एतदेव पर्यायद्वयेन व्याचष्टे-देवसमवायेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org