SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० ३९९ 'तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, ताओनंदाओ पुक्खरिणीओ' इत्यादि, ताश्च नन्दापुष्करिण्य एकैकं योजनशतमायामविष्कम्याभ्यां पञ्चाशद् योजनानि विष्कम्भेन दश योजनान्युद्वेधेन 'अच्छाओ सण्हाओ रययमयकूलाओ' इत्यादि पुष्करिणीवर्णनं जगत्युपरिपुष्करिणीवद्वक्तव्यं नवरं 'खोदरसपडिपुण्णाओ' इति वक्तव्यं, ताश्च नन्दापुष्करिण्यः प्रत्येकं प्रत्येकं पद्मवरवेदिकया प्रत्येकं प्रत्येकं वनखण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां वर्णनं तोरणवर्णनं च प्राग्वत् । इदमन्यदधिकं पुस्तकान्तरे दृश्यते- 'तासि णं पुक्खरिणीणं चउद्दिसिं चत्तारि वनसंडा पन्नत्ता, तंजहा - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं ॥ १ ॥ "पुव्वेण असोगवमं दाहिणतो होइ चंपगवणं तु (सत्तपन्नवणं) । अवरेण पंचगवणं चूयवणं उत्तरे पासे ॥" 'तेसु ण'मित्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् गुलिकासहस्राणि, गुलिका:- पीठिका अभिधीयन्ते, ताश्च मनोगुलिकापेक्षया प्रमाणतः क्षुल्लास्तासां सहस्राणि गुलिकासहस्राणि प्रज्ञप्तानि तद्यथा - पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टौ सहस्राणि । 'तासु णं गुलियासु बहवे सुवण्णरूप्पामया फलगा प०' इत्यादि विजयदेवराजधानीगतसुधर्म्मासभायामिव वक्तव्यं यावद्दामवर्णनं । 'तेसुण' मित्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंशत् मनोगुलिकासहस्राणि प्रज्ञप्तानि, गुलिकापेक्षया प्रमाणतो महतीतराः, तद्यथा - पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ सहस्राणि उत्तरस्यामष्टौ सहस्राणि, एतास्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ॥ 'तेसुणं सिद्धायतनेसु' इत्यादि, तेषु सिद्धायतनेषु प्रत्येकं प्रत्येकमष्टचत्वारिंश-द्गमानुष्यः - शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि, तद्यथा- पूर्वस्यां दिशि षोडश सहस्राणि पश्चिमायां षोडश सहस्राणि दक्षिणस्यामष्टौ उत्तरस्यामष्टौ सहस्राणि तास्वपि फलकवर्णनं नागन्तव्णनं सिक्ककवर्णनं धूपघटिकावर्णनं प्राग्वत् । 'तेसि णं सिद्धायतणाण' मित्यादि उल्लोकवर्णनमन्तर्बहुसमरमणीयभूमिभागवर्णनं शब्दवर्ज प्राग्वत् ।। 'तेसि णं बहुसमरमणिज्जाणं भूमिभागाणमित्यादि, तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमय्यो यावठातिरूपकाः ॥ 'तासि णमित्यादि, तासां च मणिपीठीकानामुपरि प्रत्येकं २ देवच्छन्दकः प्रज्ञप्तः, ते च देवच्छन्दकः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्युर्द्धमुचैस्त्वेन सर्वात्मना रत्नमया अच्छा यावत्तिरूपाः 'तेसुण' मित्यादि, तेषु देवच्छन्दकेषुप्रत्येक २ मध्शतं जिनप्रतिमानांजिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामित्यर्थ सन्निक्षिप्तं तिष्ठति, प्रतिमावर्णनादि विजयदेवराजधानीगतसिद्धायतनवत्तावद्वक्तव्यं यावदष्टशतं धूपकडुच्छुकानाम् || 'तेसि ण'मित्यादि, तेषां सिद्धायतनानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावद्वहवः सहस्रपत्र हस्तकाः सर्वरत्नमया अच्छा यावव्यतिरूपाः । 'तत्थ ण' मित्यादि, तत्र तेषु चतुर्ष्वञ्जनपर्वतेषु मध्ये योऽसौ पूर्वदिगभावी अञ्जनकपर्वत For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy