SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३९८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव०/२९४ ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वत् ॥ 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं विजयदृष्यवर्णनमङ्कशवर्णनं दामवर्णनं च प्राग्वत् तेषां च प्रेक्षागृहमण्डपानामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि यावद् बहवः सहस्लपत्रहस्तका इति । 'तेसि ण' मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ता, ताश्च मणिपीठिकाः प्रत्येकं प्रत्येकं षोडश योजनान्यायामविष्कम्भाभ्यां अष्ट योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा इत्यादि प्राग्वद यावव्यतिरूपाः । 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तूपाः प्रज्ञप्ताः । 'ते णं चेइयधूमा' इत्यादि, ते चैत्यस्तूपाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैस्त्वेन, ते च शङ्खाङ्क कुन्ददकरजोऽमृतमथितफेनपुञ्जसंनिकाशा 'अच्छा' इत्यादि प्राग्वत् यावत्प्रतिरूपाः । 'तेसिण' मित्यादि, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तकाः ॥ 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतम्न मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारिं योजनानि बाहल्येन सर्वात्मना मणिमय्यो यावत्प्रतिरूपाः ॥ 'तासिणमित्यादि, तासां मणिपीठिका - नामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतना जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः पञ्चधनुःशतप्रमाणा इत्यर्थः सर्वात्मना रत्नमय्यः संपर्य्यङ्कासननिषण्णाः स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा - पूर्वस्यां दिशि ऋषभा दक्षिणस्यां वर्द्धमानाः अपरस्यां चन्द्राननाः उत्तरस्यां वारिषेणाः । 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका: षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा यावव्यतिरूपाः ।। 'तासि ण' मित्यादि, तासां मणिपीठीकानामुपरि प्रत्येकं प्रत्येकं चैत्यवृक्षः प्रज्ञप्तः, ते च चैत्यवृक्षा अष्टौ योजनान्यूर्ध्वमुचैस्त्वेन अर्द्धयोजनमुद्वेधेन द्वे योजने उच्चैस्त्वेन स्कन्धः स एवार्द्धयोजनं विष्कम्भेन यावद्बहुमध्यदेशभागे ऊर्द्धविनिर्गता साखा - विडिमा सा षड् योजना - न्यूर्द्धमुच्चैस्त्वेन, साऽपि चार्द्धयोजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्ता । 'तेसि णंमयमेयारूवे वण्णावासे पन्नत्ते' इत्यादि चैत्यवृक्षवर्णनं विजयराजधानीगतचैत्यवृक्षवद्भावनीयं यावल्लतावर्णनमिति ।। 'तेसि ण' मित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तावद् यावत्सहस्रपत्रहस्तकाः सर्वरलमया अच्छा यावत्प्रतिरूपाः ।। 'तेसि ण'मित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमय्योऽच्छा यावत्प्रतिरूपा ॥। 'तासि ज' मित्यादि, तासां मणिपिठीकानामुपरि प्रत्येकं २ महेन्द्रध्वजः प्रज्ञप्तः, तेच महेन्द्रध्वजाः षष्टियोजनान्यर्द्धमुच्चैस्त्वेन योजनमुद्वेधेन योजनं विष्कम्मेन वज्रमया इत्यादि वर्णनं विजयदेवराजधानीगतमहेन्द्रध्वजवद्वेदितव्यं यावत्तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy