________________
प्रतिपत्तिः-३, दीव०
३९७ उच्छ्रितानि-लम्बमानानि हेमजालानि--हेममयदामसमूहा यानि गवाक्षजालानि-गवाक्षाकृतिरलविशेषदामसमूहाः यानि च किङ्किणीघण्टाजालान-क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः-सर्वतो व्याप्ताः, 'अब्झुग्गया' इति अभिमुखमुद्गता अभ्युद्गताः अग्रिमभागेमनाग उन्नता इति भावः 'अभिनिसिट्ठा' इति अभिमुखं-बहिर्भागाभिमुखं निसृष्टा अभिनिसृष्टाः 'तिरियंसुसंपरिग्गहिया' इति तिर्यग् भित्तिप्रदेशैः शउष्टु-अतिशयेन सम्यग्-मनागप्यचलनन परिगृहीताः।
'अहेपन्नगद्धरूवा' अघः-अधस्तनं यत् पन्नगस्याईतस्येवरूपं-आकारो येषां ते तथा, अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेववाव्याचष्टे-पन्नगार्द्धसंस्थानसंस्थिताः, किण्हसुत्तवट्टवग्धारियमल्लदामकलावा' इति, कृष्णसूत्रबद्धा वग्धारिया--अवलंबिता माल्यदामकलापाः-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धाअपि वाच्याः, तवणिअलंबूसगा' इति दाम्नामग्रिमभागे गोलकाकृतिमण्डनविशेषो लम्बूसगः 'सुवण्णपयरगमंडिया' इति सुवर्णप्रतरेण-सुवर्णपत्रकेणमण्डितानि सुवर्णप्रतरकमण्डितानि, सालमझिकासूत्रे 'आमेलगजमलजुगलवट्टियअब्भनयपीणरइयसंठियपओहराओ' इति पीनं-पीवरं रचितंतथाजगस्थितिस्वाभाव्याद् रतिदं वा संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थिती पीनरतिदसंस्थिती वा आमेलक-आपीडः शेखरक इत्यर्थः तस्य यमलं-समश्रेणीकं यद् युगलं-द्वन्द्वं तद्वद् वर्तितीबद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युनती पीनरचितसंस्थितौ च पयोधरौ यास ताः तथा । 'लूसेमाणीओ इवे ति मुण्यन्त्य इव सुरजनानां मनांसीति गम्यते, शेषं प्रायः प्रतीतं,प्रागेवानेकशो भावितत्वात्।
'तेसि णं दाराणमुष्पि मित्यादि येषां द्वाराणामुपरि प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि स्वस्तिकादीनिप्रज्ञप्तानि सर्वरत्नमयानिअच्छानियावप्रतिरूपकाणि ॥ तेसिणंदाराण'मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपाः प्रज्ञप्ताः, 'ते णमित्यादि, ते मुखमण्डपा एक योजनशतमायामेन पञ्चाशयोजनानि विष्कम्भेन सातिरेकाणिषोडशयोजनानिऊर्द्धमुस्त्वेन अनेकस्तम्भशतसन्निविष्टा इत्यादि विजयदेवसुधर्मासभायाइव वर्णनं तावद्वक्तव्यं यावप्रतिरूपा 'तेसि णमित्यादि, तेषां मुखमण्डपानां प्रत्येकं प्रत्येकं चतुर्दित्रिदिशि' चत [ति] सृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि [त्रीणि] द्वाराणि प्रज्ञप्तानि ।
'तेणं दारा' इत्यादि, तानि द्वाराणि षोडश योजनानि ऊर्ध्वमुस्त्वेन अष्टौ योजनानि विष्कम्भेन तावइयंचेव' अष्टावेव योजनानिप्रवेशेन 'सेया वरकणगथूभियागा' इति द्वारवर्णनं प्राग्वत्तावद्वक्तव्यं यावदुपर्यष्टावष्टौ मङ्गलकानि-स्वस्तिकादीनि, तेषामुल्लोचवर्णनं प्राग्वत्, तेषां चमुखमण्पानामुपरिप्रत्येकं प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि सर्वरत्नमयानि अच्छानि यावप्रतिरूपकाणि, बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तका इति । 'तेसि णमित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येकं प्रत्येक प्रेक्षागृहमण्डपाः प्रज्ञप्ताः तेऽपि मुखमण्डपवप्रमाणतो वक्तव्याः, तेषामप्युल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् ।
तेषां बहुसमरमणीयानां भूमिभागानांबहुमध्यदेशभागे प्रत्येकंप्रत्येकमक्षाटकाः प्रज्ञप्ताः 'तेणमित्यादि, ते अक्षपाटका वज्रमयाः ‘अच्छा जाव पडिरूवा' इति प्राग्वत्।
'तेसि ण मित्यादि, तेषामक्षपाटकानां बहुमध्यदेशभागे प्रत्येक मणिपीठिकाः प्रज्ञप्ताः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org