________________
३९०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २९३
द्रूपं ? भगवानाह - नायमर्थः समर्थः, घृतोदस्य यस्मात्समुद्रस्योदकम् 'इतः' यथोक्तस्वरूपाद् घृतादिष्टतरमेव यावन्मनआपतरमेवास्वादेन प्रज्ञप्तं, कान्तसुकान्ती च यथाक्रमं पूर्वार्द्धपश्चिमार्द्धाधिपती अत्र घृतोदे समुद्रे महर्द्धिकी यावत्पल्योपमस्थितिकी परिवसतः, ततो घृतमिवोदकं यस्यासौ घृतोदः, तथा चाह- 'से एएणद्वेण' इत्यादि सुगमं चन्द्रादिसङ्ख्त्यासूत्रमपि सुगमम् ।
'घतोदण्ण' मित्यादि, घृतोदं णमिति वाक्यालङ्कारे समुद्रं क्षोदवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, चक्रवालविष्कम्भपरिक्षेपद्वारादिवक्तव्यता तथैव यावज्जीवोपपातसूत्रम् । सम्प्रति नामान्वर्थमभिधित्सुराह
'सेकेणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदवरो द्वीपः २ ? इति, भगवानाह - गौतम ! क्षोदवरे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे 'बहवे खुड्डाखुड्डियाओ वावीओ' इत्यादि पूर्ववत्तावद्वक्तव्यं यावद् 'वानमंतरा देवा देवीओ य आसयंति सयंति जाद विहरंति' नवरंवाप्यादयः क्षोदोदकपरिपूर्णा इति वक्तव्यं, तथा पर्वतकाः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः सर्वात्मना वैडूर्यमयाः प्रज्ञप्ताः, सुप्रभमहाप्रभी च यथाक्रमं पूर्वार्धापरार्द्धाधिपती द्वौ देवावत्र क्षोदवर द्वीपे महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततः क्षोदोदकवाप्यादियोगात्क्षोदवरः स द्वीपः, एतदेवाह - 'से एएणद्वेण 'मित्यादि, चन्द्रादिसूत्रं प्राग्वत् । 'खोयवरण्णं दीव' मित्यादि, क्षोदवरं णमिति पूर्ववद् द्वीपं क्षोदोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवालविष्कम्भादिवक्तवयता पूर्ववद् यावज्जीवोपपातसूत्रम् ।
सम्प्रति नामनिमित्तमभिधित्सुराह - 'सेकेणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते क्षोदोदः समुद्रः २ ? इति, भगवानाह - क्षोदोदस्य समुद्रस्योदकं यथा नाम इक्षूणां जात्यानां जात्यत्वमेवाह - 'वरपुंडगाणं' विशिष्टानां पुण्ड्रदेशोद्भवानां हरितानां शाड्वलानां 'भेरण्डेक्षूणां वा' भेरण्डदेशोद्भवानां वा इक्षूणां 'कालपोराणं'ति कृष्मपर्वमाम् उपरितनपत्रसमूहापेक्षया हरितालवत्पिञ्जराणाम् 'अपनीतमूलानाम्' अपनीतमूलत्रिभागानां त्रिभागनिर्वाटितवाटानां ऊर्ध्वभागादपि त्रिभागहीनानामिति भावः मध्यत्रिभागावशेषाणामिति समुदायार्थ 'गंठिपरिसोहियाणं' ति ग्रन्थि - पर्वग्रन्थि शोधितः - अपनीतो येभ्यस्ते तथा, तेषां मूलत्रिभागे उपरितनत्रिभागे पर्वग्रन्थौ च नातिसमीचीनो रस इति तद्वर्जनं क्षोदरसो भवेद् 'वस्त्रपरिपूतः' श्लक्ष्णवस्त्रपरिपूतः चतुर्जातकेन सुष्ठु - अतिशयेन वासितश्चतुर्जातकवासितः, चतुर्जातकं त्वगेलाकसराख्यगन्धद्रव्यमरिचात्मकं उक्तञ्च
|| 9 ||
“त्वगेलागैकरैस्तुल्यं, त्रिसुगन्धं त्रिजातकम् । मरिचेन समायुक्तं, चतुर्जातकमुच्यते ॥”
अधिकं- अतिशयेन पथ्यं न रोगहेतुः लघुः - परिणामलघुः वर्णेन-सामर्थ्यादतिशायिना उपपेतः एवं गन्धेन रसेन स्पर्शेनोपपेत आस्वादनीयो दर्पणीयो मदनीयो बृंहणीयः सर्वेन्द्रियगात्रप्रह्लादनीयः एवमुक्ते गौतम आह- 'भवे एयारूवे' भवेद् भगवन् ! क्षोदोदसमुद्रस्योदकमेत द्रूपं ?, भगवानाह - गो० नायमर्थः समर्थः, क्षोदोदस्य यस्मात्समुद्रस्योदकम् 'अस्मात्' यथोक्तरूपात्क्षोदरसादिष्टतरमेव यावन्मन आपतरमेवास्वादेन प्रज्ञप्तम्, इह प्रविरलपुस्तकेऽन्यथाऽपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org