________________
प्रतिपत्तिः - ३,
, दीव०
३८९
यामया जाव पडिरुवा, सुप्पभमहम्पभा य दो देवा महिड्डीया जाव परिवसंति, से एतेणं० सव्वं जोतिसं तं चेव जाव तारा० ।
खोयवरण्णं दीवं खोदोदे नाम समुद्दे वट्टे वलया० जाव संखेखाइं जोयणसतपरिक्खेवेणं जाव अट्ठे, गोयमा ! खोदोदस्स णं समुद्दस्स उदए जहा से० आसलमांसलपसत्यवीसंतनिद्धसुकुमाल भूमिभागे सुच्छिन्ने सुकट्ठलट्ठविसिट्ठनिरुवहयाजीयवावीतसुकासजपयत्तनिउणपरिकम्पअणुपालियसुवुडिवुढाणं सुजाताणं लवणतणदोसवज्जियाणं नयायपरिवड्डियाणं निम्मातसुंदराणं रसेणं परिणयमउपीणपोरभंगुर सुजायमधुररसपुष्फविरिइयाणं उवद्दवविवज्जियाणं सीयपरिफासियाणं अभिणवतवग्गाणं अपालिताणं तिभायणिच्छोडियवाडिगाणं अवनितमूलाणं गठिपरिसोहिताणं कुसुलणरकपियाणं उव्वणं जाव पोंडियाणं बलवगणरजत्तजंतपरिगालितमेत्ताणं खोयरसे होखा वत्थपरिपूए चाउज्जातगसुवासिते अहियपत्थलहुके वण्णोववेते तहेव, भवे एयारूवे सिया ? नो तिणडे समट्टे, खोयरसस्स णं समुद्दस्स उदए एत्तो इट्ठतरए चेव जाव आसाएणं प० पुण्णभद्दमाणिभद्दा य (पुण्णपुण्णभद्दा) इत्थ दुवे देवा जाव परिवसंति, सेसं तहेव, जोइस संखेचं चंदा० ॥
वृ. 'खीरोदण्णं समुद्द' मित्यादि, क्षीरोदं णमिति पूर्ववत् समुद्रं घृतवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, अत्रापि चक्रवालविष्कम्भपरिक्षेपपद्मवरवेदिकावनषण्डद्वारान्तरप्रदेशजीवोपपातवक्तव्यता पूर्ववत् ॥ सम्प्रति नामनिमित्तममिधित्सुराह 'से केणद्वेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-घृतवरो द्वीपो घृतवरो द्वीपः भगवानाह - गौतम ! घृतवरे द्वीपे 'तत्थ तत्त देसे तहिं' इत्यादि, अरुणवरद्वीपवत्सर्वं तावद्वक्तव्यं यावत् 'वानमंतरा देवाय देवीओ य आसयंति सयंति यावद् विहरंति' इति, नवरं वाप्यादयो घृतोदकपरिपूर्णा इति वक्तव्याः, तथा पर्वताः पर्वतेष्वासनानि गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथ्वीशिलापट्टकाः सर्वात्मना कनकमया इति वक्तव्यं, कनककनकप्रभौ चात्र देवी यथाक्रमं पूर्वार्द्धापरार्द्धाधिपती महर्द्धिकी यावत्पल्योपमस्थितिकी परिवसतः ततो घृतोदक- वाप्यादियोगाद् घृतवर्णदेवस्वामिकत्वा घृतवरो दीप इति, तथा चाह- 'से एएणण' मित्यादि चन्द्रादित्यादिसङ्ख्यासूत्र प्राग्वत् ।
'घयवरणं दीव' मित्यादि, घृतवरं द्वीपं घृतोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, शेषं तथा घृतवरस्य द्वीपस्य यावज्जीवोपपातसूत्रम् ।
इदानीं नाननिमित्तमभिधित्सुराह - 'सेकेणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यतेघृतोदः समुद्रो धृतोदः समुद्रः ? इति, भगवानाह - गौतम ! घृतोदस्य समुद्रस्योदकं स यथा नाम सकललोकप्रसिद्धः ‘शारदिकः' शरत्कालभावी घोघृतवरस्य मण्डः -- घृतसङ्घातस्य यदुपरिभागस्थितं घृतं स मण्ड इत्यभिधीयते सार इत्यर्थः तथा चाह मूलटीकाकार:- "घृतमण्डो घृतसार' इति, सुकथितो- यथाऽग्निपरितापतापितः, तदानामद्वारकः ( उद्दावः ) - स्थानान्तरेष्वद्याप्यसङ्क्रमितः सद्योविस्यन्दितः- तत्कालनिष्पादितो विश्रान्तः - उपशान्तकचवरः सल्लकीकर्णिकारपुष्पवर्णाभो वर्णेनोपपेतो गन्देन रसेन स्पर्शेनोपपेत आस्वादनीयो विस्वादनीयो दीपनीयो मदनीयो बृहणीयः सर्वेन्द्रियगात्रग्रह्लादनीयः, एकमुक्ते गौतम आह-'भवे एयारूवे' भवेद् घृतोदस्य समुद्रस्योदकमेत
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International