________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २८८
साहस्रकाभिः - अनेकसह- सङ्ख्याभिर्बाह्याभिः पर्षभिः, अत्रापि बहुवचनं व्यक्तपेक्षया, 'महयाहये' त्यादि यावत्समुद्ररव- भूतमिव कुर्वन्त इति प्राग्वत्, कथम्भूताः ?
इत्याह-- शुभलेश्याः, एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका इत्यर्थः, मन्दलेश्या, एतच्च विशेषणं सूर्यान् प्रति, तथा च एतदेव व्याचष्टे‘मन्दातपलेश्याः' मन्दा नात्युष्णस्वभावा आतपरूपा लेश्या - रश्मिसङ्घातो येषां ते तथा, पुनः कथम्भूताश्चन्द्रादित्याः ? इत्याह- 'चित्रान्तरलेश्याः' चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपदर्शितः, त इत्थम्भूताश्चन्द्रादित्याः परस्परमवगाढाभिर्लेश्याभि, तथाहि - चन्द्रमसां सूर्याणां च प्रत्येकं लेश्या योजनशतसहस्रप्रमाणविस्तारा, चन्द्रसूर्याणां च सूचीपङ्क्त्या व्यवस्थितानां परस्परमन्तरं पञ्चाशद् योजनसहस्राणि ततश्चन्द्रप्रभासम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्च चन्द्रप्रभाः इतीत्थं परस्परमवगाढाभिर्लेश्याभि कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव 'स्थानस्थिताः' सदैवैकत्र स्थाने स्थितास्तान् तान् प्रदेशान् स्वस्वप्रत्यासन्नान् उद्योतयन्ति अवभासयन्ति तापयन्ति प्रकाशयन्ति । 'तेसि णं भंते! देवाणं जाहे इंदे चयई' त्यादि प्राग्वत् ॥
३८२
मू. (२८९) पुक्खरवरण्णं दीवं पुक्खरोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाब संपरिक्खिवित्ताणं चिट्ठति ॥ पुक्खरोदे णं भंते! समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते ?, गोयमा ! संखेज्जाइं जोयणसयसहस्साइं चक्कवालविक्कभेणं संखेजाइं जोयणसयसहस्साइं परिक्खेवेणं पन्नत्ते ।
पुक्खरोदस्स णं समुद्दस्स कति दारा पन्नत्ता ?, गोयमा ! चत्तारि दारा पन्नत्ता तहेव सव्वं पुक्खरोदसमुद्दपुरत्थिमपेरंते वरुणवरदीवपुरत्थिमद्धस्स पञ्चत्थिमेणं एत्थ णं पुक्खरोदस्स विजए नामं दारे पन्नत्ते, एवं सेसाणवि । दारंतरंभि संखेज्जाइं जोयणसयसहस्साइं अबाहाए अंतरे प० । पदेसा जीवा य तहेव ।
सेकेणणं भंते! एवं वृच्छति ? - पुक्खरोदे समुद्दे २ ?, गोयमा ! पुक्खरोदस्स णं समुदस्स उदगे अच्छे पत्थे जो तणुए फलिहवण्णाभे पगतीए उदगरसेणं सिरिधरसिरिप्पभा य दो देवा जाव महिड्डीया जाव पनिओवमद्वितीया परिवसंति, से एतेणद्वेणं जाव निचे ।
पुक्खरोदे णं भंते! समुद्दे केवतिया चंदा पभासिंसु वा ३ ? संखेजा चंदा पभासेंसु वा ३ जाव तारागण कोडीकोडीउ सोभेंसु वा ३ ।
वृ. 'पुक्खरवरण्ण' मित्यादि, पुष्करवरं णमिति वाक्यालङ्कारे द्वीपं पुष्करोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः समन्तात्संपरिक्षिप्य तिष्ठति || ' पुक्खरोदे णं भंते ! समुद्दे समचक्कवालसंठिए' इत्यादि प्राग्वत् ॥ सम्प्रति विष्कम्भादिप्रतिपादनार्थमाह- पुक्खरोदे ण' मित्यादि, पुष्करोदो भदन्त ! समुद्रः कियञ्चक्रवालविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्तः ?, भगवानाह - गौतम ! सङ्घयेयानि योजनशतसहस्राणि चक्रवालविष्कम्भेन सङ्घयेयानि योजनशतसहस्राणि परिक्षेपेण प्रज्ञप्त । 'से ण' मित्यादि, स पुष्करोदः समुद्र एकया पद्मवरवेदिकया सामथ्यार्दष्टयोजनोच्छ्रयजगत्युपरिभाविन्या एकेन वनखण्डेन सर्वतः समन्तात्संपरिक्षिप्तः ।
'पुक्खरोदस्स णं भंते!' इत्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि भगवानाह -- गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा - विजयं वैजयन्तं जयन्तमपराजितं, कव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org