________________
प्रतिपत्तिः-३, दीव०
३८१ चत्तारि पंच सामाणिया तं ठाणं उवसंपजित्ताणं विहरति जाव तत्थ अन्ने उववन्ने भवति । इंदवाणेणंभंते! केवतियंकालं विरहओउववातेणं?, गो० जहन्नेणं एकसमयंउक्कोसेणंछम्मासा ।।
वृ. 'अंतोणमित्यादि, 'अन्तः' मध्येणमितिवाक्यालङ्कारभदन्त! मानुषोत्तरस्यपर्वतस्य ये चन्द्रसूर्यग्रहनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूर्टोपपन्नाः ?-सौधर्मादिभ्यो द्वादशेभ्यः कल्पेभ्य ऊर्द्धमुपपन्ना ऊोपपन्नाः कल्पेषु-सौधर्मादिषु उपपन्नाः कल्पोपन्नाः विमानेषुसामान्यरूपेषु उपपन्ना विमानोपपत्राः चारो-मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रितवन्तथारोपपन्नाः चारस्ययतोक्तरूपस्य स्थिति-अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गतौ रति-आसक्ति प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिमात्रमुक्तं, सम्प्रति साक्षाद्गतिं प्रश्नयति- 'गतिसमापन्नाः ?' गतिसमापन्नाः गतियुक्ताः, एवं गौतमेन प्रश्ने कृते भगवानाह
गौतम ! ते देवा नोझैपपन्नास्तथा चारोपन्नाश्चारसहिता नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिकाः साक्षाद्गतियुक्ताश्च, नालिकापुष्पसंस्थानसंस्थितैः योजनसाहस्रकैः' अनेकयोजनसहनप्रमामैस्तापक्षेत्रैः 'साहस्रकाभिः' अनेकसहस्रसञ्जयाभिर्बाह्याभि पर्षद्भिः, अत्र बहुवचनं व्यक्तपेक्षया, वैकुर्विकाभि' विकुर्वितनानारूपधारणीभि 'महयाहयन-ट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेण मिति पूर्ववत् 'दिव्यान्' प्रधानात् भोगार्हाभोगाः-शब्दादयो भोगभोगास्तान् भुञ्जानास्तथा स्वभावतो गतिरतिकैर्बाह्यपर्षदन्तर्गतैर्देवैगेन गच्छत्सु विमानेषु 'उत्कृष्टतः' उत्कर्षवशेन ये मुच्यन्ते सिंहनादादयश्च क्रियन्ते बोलाः, बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, यच्च कलकलो-व्याकुलशब्दसूहस्तद्रवेण महता समुद्रवर- भूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टम्?
इत्याह-'अच्छम् अतीवनिर्मलजाम्बूनदमयत्वात् रत्नबहुलत्वाच्च पर्वतराज' पर्वतेन्द्रं प्रदक्षिणावर्त्तमण्डलं चारं यथा भवति तथा मेरुमनुलक्षीकृत्य 'परिअडंति' पर्यटन्ति । पुनः प्रश्नयति-'तेसिणंभंते!' इत्यादि, तेषां भदन्त! ज्योतिष्कदेवानां यदा इन्द्रश्चयवते तदाते देवा 'इदानीम्' इन्द्रविरहकाले कथंप्रकुर्वन्ति?, भगवानाह-गौतम! यावचत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत्स्थानम् इन्द्रविरहकाले कथंप्रकुर्वन्ति?, भगवानाह-गौतम !यावच्चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय 'तत्स्थानम् इन्द्रस्थानमुपसंपद्य 'विहरन्ति' तदिन्द्रस्थान परिपालयन्ति, संजाती शुल्कस्थानदिकपञ्चकुलवत्, कियन्तंकालं यावत्तदिन्द्रस्थानं परिपालयन्ति इति चेदत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति ।। 'इंदट्ठाणे ण मित्यादि, इन्द्रस्थानं भदन्त! कियन्तंकालमुपपातेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम! जघन्येनैकंसमयं यावदुत्कर्षतः षण्मासान् । 'बहियाण मित्यादि, बहिर्भदन्त! मानुषोत्तरस्यपर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपास्ते भदन्त देवाः किमूझैपपन्नाः? इत्यादिप्राग्वत्, भगवानाह-गौतम! नोझैपपन्नका नापि कल्पोपपन्नाः किन्त विमानोपपन्नास्तथा नो चारोपपन्नाः किन्तुचारस्थितिकाः अत एव नो गतिरतयो नापि गतिसमापनकाः 'पक्किट्टगसंठाणसंठिएहिंति पकवेष्टकसंश्थानसंस्थितैर्योजनशतसाहसिकरातपक्षेत्रैः, यथा इष्टका आयामतो दीर्घा भवति विस्तरतस् स्तोका चतुरन च तेषामपि मनुष्यक्षेत्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोऽनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्थम्भूतैरातपक्षेत्रैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org