________________
प्रतिपत्तिः - ३, दीव०
पदन्त ! पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! पुष्करोदसमुद्रस्य पूर्वार्द्धपर्यन्तेऽरुणवरद्वीपपूर्वार्द्धस्य पश्चिमदिशि, अत्र पुष्करोदसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तं, तच्च जम्बूद्वीपविजयद्वारवद्वक्त्यं, नवरं राजधानी अन्यस्मिन् पुष्करोदे समुद्रे ।
३८३
'कहिण' मित्यादि, का भदन्त ! पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! पुष्करदसमुद्रस्य दक्षिणपर्यन्तेऽरुणवरद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् ।। क्व भदन्त ! पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! पुष्करोदसमुद्रस्य पश्चिमपर्यन्तेऽरुणवरद्वीपपश्चिमार्द्धस्य पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतजयन्द्वारवत्, नवरं राजधानी अन्यस्मिन् पुष्करोदसमुद्रे 'कहिण' मित्यादि, कव भदन्त ! पुष्करोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह - गौतम पुष्करोदसमुद्रस्योत्तरपर्यन्तेऽरुणवरद्वीपस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तम्, एतदपि जम्बूद्वीपगतापराजितद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करोदसमुद्रे
'पुक्खरोदस्स ण' मित्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य द्वारस्य च परस्परमन्तरमेतत् कियत् 'अबाधया' अन्तरित्वा व्याघातरूपया प्रज्ञप्तम् ?, भगवानाह - गौतम ! सङ्घयेयानि योजनशतसहस्राणि द्वारस्य द्वारस्य च परस्परमबाधयाऽन्तरं प्रज्ञप्तम् ॥ 'पएसे' त्यादि प्रदेशजीवोपपातसूत्रचतुष्टयं तथैव पूर्ववत्, तच्चैवम्- "पुक्खरोयस्स णं भंते! समुद्दस्स पएसा अरुणवरं दीवं पुट्ठा ?, हंता ! पुट्ठा, ते णं भंते! पुक्खरोदे समुद्दे अरुणवरे दीवे ?, गोयमा ! पुक्खरोए णं समुद्दे नो अरुणवरे दीवे ।
अरुणवरस्स णं भंते! दीवस्स पएसा पुक्खरोदण्णं समुद्दं पुट्ठा ?, हंता पुट्ठा, ते णं भंते ! किं अरुणवरे दीवे पुक्खरोदे समुद्दे ? गोयमा ! अरुणवरे णं दीवे नो खलु ते पुक्खरोए समुद्दे । पुक्खरोए णं भंते! समुद्दे जीवा उद्दाइत्ता अरुणवरे दीवे पच्चायंति ?, गोयमा ! अत्येगइया पञ्चायंति अत्थेगइया नो पच्चायंति । अरुणवरे णं भंते! दीवे जीवा उद्दाइत्ता पुक्खरोदे समुद्दे० ?" इति, (पुष्करोदान्वर्थे) भगवानाह - गौतम ! पुष्करोदसय णमिति पूर्ववत् समुद्रस्योदकम् ' अच्छम्' अनाविलं 'पथ्यं' न रोगहेतुः 'जात्यं' न विजातिमत् 'तनु' लघुपरिणामं 'स्फटिकवर्णाभं' स्फटिकरत्नच्छायं प्रकृत्योदकरसं प्रज्ञप्तं, श्रीधर श्रीप्रभी चात्र- पुष्करोदे समुद्रे द्वौ देवौ महर्द्धिकौ यावत्पल्योपमस्थितिको परिवसतः, ततस्ताभ्यां सपरिवाराभ्यां गगनमिव चन्द्रादित्याभ्यां ग्रहनक्षत्रादिपरिवारोपेताभ्यां तदुदकमवभासत इति, पुष्करमिवोदकं यस्यासी पुष्करोदः, तथ चाह - 'से एएणद्वेण 'मित्याद्युपसंहावाक्यम् । 'पुक्खरोए णं भंते! समुद्दे कइ चंदा पभासिंसु ?' इत्यादि पाठसिद्धं, सर्वत्र सङ्घयेयमय निर्वचनभावात् ।
मू. (२९०) पुक्खरोदे णं समुद्दे वरुणवरेणं दीवेणं संपरि० वट्टे वलयागारे जाव चिट्ठति, तहेव समचक्कवालसंठिते केवतियं चक्कवालविक्खंभेणं ? केवइयं परिक्खेवेणं ? पन्नत्ता, गो० संखिज्जाई जोयणसयसहस्साइं चक्कवालविक्खंभेणं संखेजाइं जोयणसतसहस्साइं परिक्खेवेणं पन्नत्ते, पउमवरवेदियावनसंडवण्णओ दारंतरं पदेसा जीवा तहेव सव्वं ।
सेकेणट्टेणं भंते! एवं बुच्चइ वरुणवरे दीवे २ ?, गोयमा ! वरुणवरे णं दीवे तत्थ २ देसे २ तहिं २ बहुओ खुड्डा खुड्डियाओ जाव बिलपंतियाओ अच्छाओ पत्तेयं २ पउमवरवेइयापरि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org