________________
प्रतिपत्तिः -३, दीव०
३७९
-उच्छ्वासाश्च मुहूर्ते त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि, उक्तञ्च॥१॥ “तिन्नि सहस्सा सत्तय सयाई तेवत्तरिच ऊसासा ।
एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं ।' त्रिंशन्मुहूर्तप्रमाणोऽहोरात्रः, पञ्चदशाहोरात्रः पक्षः, द्वौ पक्षौ मासः, द्वौ मासौ ऋतुः, ते चषट्, तद्यथा-प्रावृड् वराित्रः शरद् हेमन्तः वसन्तः ग्रीष्मश्च, तत्र-'आषाढाद्या ऋतव' इति वचनाद् आषाढश्रावणौ प्रावृट् भाद्रपदास्वयुजी वर्षारात्र कार्तिकमार्गशीर्षों शरद् पौषमाधौ हेमन्तः फाल्गुनचैत्रौवसन्तः वैशाखज्येष्ठौ ग्रीष्मः, ये त्वभिदधतिवसन्ताद्या ऋतवः (इतिवसन्तः) ग्रीष्मः प्रावृटशरदी हेमन्तः शिशिर इति षडिति तदप्रमाणसमवसातव्यं, जैनमतोत्तीर्णत्वात्, त्रय ऋतवोऽयनं, द्वेअयने संवत्सरः, पञ्चसंवत्सरं युगं, विंशतियुगानि वर्षशतं, इहाहोरात्रे मासे वर्षे वर्षशते चोच्छ्वासपरिमाणमेवं पूर्वसूरिभि संकलितम्॥१॥ “एगं च सयसहस्सं ऊसासाणंतु तेरस सहस्सा।
नउयसएणं अहिया दिवसनिसिं होति विन्नेया॥ ॥२॥ मासेऽविय ऊसासा लक्खा तित्तीस सहस पणनउई।
सत्त सयाईजाणसु कहियाई पुव्वसूरीहिं।। ॥३॥ चत्तारिय कोडीओ लक्खा सत्तेव होंति नायव्वा ।
अडयालीससहस्सा चारसया होति वरिसेणं ।। दश वर्षशतानि वर्षसहस्रं शतं वर्षसहस्राणां वर्षशतसहस्रं चतुरशीति वर्षशतसहस्राणि एकंपूर्वाङ्ग, चतुरशीति पूर्वाङ्गशतसहस्राणि एकंपूर्व, चतुरशीतिपूर्ववर्षशतसहस्राणि एकंत्रुटिताङ्गं, चतुरशीति त्रुटिताङ्गशतसहस्राणि एकं त्रुटितं, चतुरशीतिस्त्रुटितशतसहस्राणि एकमडडाझं, चतुरशीतिरडडाङ्गशतसहस्राणि एकमडडं, चतुरशीतिरडडशतसहस्राणि एवमववाझं, चतुरशीतिरववाङ्गशतसहस्राणि एकमववं, चतुरशीतिरववशतसहस्राणि एकं हूहुकाझं, चतुरशीतिहहुकाङ्गशतसहस्पणि एकं हूहुकं, चतुरशीतिहूंहुकशतसहस्राणि एकमुत्पलाङ्ग, चतुरशीतिरुत्पलाङ्गशतसहस्राणि एकमुत्पलं, चतुरशीतिरुत्पलशतसहस्राणि एकंपद्माङ्ग, चतुरशीति पद्माङ्गशतसहस्राणि एकं पद्म, चतुरशीति पद्मशतसहस्राणि एकं नलिनाङ्गं ।
चतुरशीतिर्नलिनाङ्गशतसहस्रणि एकं नलिनं, चतुरशीतिर्नलिनशतसहस्राणि एकमर्थनिकुराङ्ग, चतुरशीतिरर्थनिकुराङ्कशतसहस्राणि एकमर्थिकुरं, चतुरशीतिरनिकुरशतसहस्राणि एकमयुताङ्ग, चतुरशीतिरयुताङ्गशतसहस्रणि एकमयुतं, चतुरशीतिरयुतशतहसहमणि एकं प्रयुताङ्ग, चतुरशीति प्रयुताङ्गशतसहस्राणि एकं प्रयुतं, चतुरशीति प्रयुतशतसहस्राणि एकं नयुताङ्ग, चतुरशीतिर्नयुताङ्गशतसहस्राणिएकंनयुतं, चतुरशीतिर्नयुतशतसहस्राणिएकंचूलिकाझं, चतुरशीतिश्चूलिकाङअघशतसहस्राणि एका चूलिका, चतुरशीतिधूलिकाशतसहस्राणि एकं शीर्षप्रहेलिकाङ्गं, चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राणि एकाशीर्षप्रहेलिका एतावानेवगणितस्य विषयोऽतः परमोपमिकं कालपरिमाणं।
___ एतदेवाह-पल्योपममिति वा, पल्योपमस्वरूपं सङ्ग्रहणिटीकातोऽवसातव्यं, तत्र सविस्तर- मभिहितत्वात्, पल्योपमानां दश कोटीकोट्य एकं सागरोपम, दश कोटीकोटयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org