SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३७८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव०/२८७ आह- 'जावं च ण' मित्यादि, यावदयं मानुषोत्तरपर्वतस्तावत् 'अस्सिलोए' इति अयं मानुषलोक् इति प्रोच्यते न परतः, तथा यावद्वर्षाणि - भरतादीनि क्षेत्राणीति वा वर्षधरपर्वता - हिमवदादय इति वा तावदयं मनुष्यलोक इति प्रोच्यते न परतः, एतावता किमुक्तं भवति ? वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यत्रेति, एवमुत्तरत्रापि भावनीयं, तथा यावदध्गृहाणीति वा गृहापतनानीति वा तत्र गृहाणि प्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोकः प्रोच्यते, गृहाणि गृहापतनानि वाऽस्मिन्नेव मनुष्यलोके नान्यत्रेति भावः, तथा ग्रामा इति वा नकराणीति वा यावत्सन्निवेशा इति वा, यावत्करणात् खेटकर्बटादिपरिग्रहस्तावदयं मनुष्यलोक इति प्रोच्यते, अत्रापि भावार्थ प्राग्वत्, तथा यावदर्हन्तश्चक्रवर्त्तिनो बलदेवा वासुदेवाश्चारणाजङ्घाचारण-विद्याधराः 'श्रमणाः ' साधवः 'श्रमण्यः संयत्यः श्रावकाः श्राविकाश्च, तथा मनुष्याः प्रकृतिभद्रका इत्यादि यावद्विनीतास्तावदयं मनुष्यलोक इति प्रोच्यते, अर्हदादीनामत्रैव भावो नान्यत्रेति भावार्थ तथा यावदुदारा बलाहका - मेघाः संस्विद्यन्ते संमूर्च्छन्ति-वर्षा वर्षन्ति, अस्य व्याख्यानं प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वर्षुकाणामत्रैव भावो नान्यत्रेति भावार्थ, तथा यावत् 'बादरः' गुरुतरः 'स्तनितशब्दः' गर्जितशब्द इति, 'बादरो विद्युत्कार इति वा ' बादरा- अतिबहलतरा विद्युत् तावदयं मनुष्यलोके इति प्रोच्यते, तथा यावदयं बादरोऽग्निगायिकस्तावदयं मनुष्यलोक इति प्रोच्यते, बादरग्निकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात्, तथा यावदाकरा इति वा, आकरा - हिरण्याकरादयः, नद्य इति वा निधय इति वा तावदयं मनुष्यलोक इति प्रोच्यते, तेषामपि मनुष्यक्षेत्रादन्यवासम्भवात्, तथा यावत्समया इति वा, समयः - परमनिरुद्धः कालविशेषो यस्याधो विभागः कर्तु न शक्यते, सच सूचिकदारकस्तरुणो बलवानित्यादिपूर्वोक्तविशेषणविशिष्टो यावन्निपुणशिल्पोपगत एकां महतीपटशाटिकां पट्टशाटिकां वा गृहीत्वा शीघ्रं हस्तमात्रमपसारयन् यावता कालेनोपरितनतन्तुगतमुपरितनं पक्ष्म छिनत्ति ततोऽपि मनाक् सूक्ष्मतरी, जघन्ययुक्तासङ्घयातकसमयानां समुदायः एकावलिका, सङ्घयेया आवलिका एक उच्छासः सङ्ख्येयाऽऽ वलिका निश्वासः उच्छासनिश्वासौ समुदितावेक आनप्राणकालः, किमुक्तं भवति ? – ह्वष्टस्य नीरोगस्य श्रमबुभुक्षादिना निरुपकृष्टस्य यावता कालेनैतावुच्छासनिश्वासौ भवतः तावान् काल आनप्राणः, उक्तश्च 11911 "हट्ठस्स अणवकल्लस्स, निरुवकिठ्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चए ॥" सप्त प्राणा एकः स्तोकः सप्त स्तोका एको लवः सप्तसप्ततिसङ्ख्या लवा एको मुहूर्त्तः उक्तञ्च119 11 "सत पाणूणि से थोवे, सत्त धोवाणि सेलवे । लवाण सत्तहत्तरिए, एस मुहुत्ते वियाहिए ।" अस्मिंश्च मुहूर्ते यद्यावलिकाश्चिन्त्यन्ते तदा तासामेका कोटी सप्तषष्टिर्लक्षाः सप्तसप्तति सहस्राणि द्वे शते षोडशाधिके, उक्तञ्च 119 || "एगा कोडी सत्तट्ठि लक्खा सत्तत्तरी सहस्सा य । दो यसया सोलहिया सोलहिया आवलियाणं मुहुत्तंमि ॥" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy