________________
प्रतिपत्तिः - ३, दीव०
३७७
योजनशते किञ्चिद्विशेषाधिके अन्तर्गिरिपरिरयेण एका योजनकोटी द्वाचत्वारिंशत् शहसहस्रणि षट्त्रिशत्सहस्राणि सप्त चतुर्दशोत्तराणि योजनशतानि बहिर्गिरिपरिरयेण एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि षट्त्रिंशत्सहस्राणि सप्त चतुर्दशोत्तरामि योजनशतानि बहिर्गिरिपरिरयेण एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणिचतुस्रशत्सहस्रणि अष्टीत्रयोविंशत्युत्तराणियोजनशतानि मध्यगिरिपरिरयेण एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि द्वात्रिंशत्सहस्राणि नव च द्वात्रिंशदुत्तराणि योजनशतानि उपरिगिरिपरिरयेण इदं च मध्ये उपरि च गिरिपरिरयपरिमाणं बहिर्भागापेक्षमव- सातव्यं, अभ्यन्तरं छिन्नतया मूले मध्ये उपरि च सर्वत्र तुल्यपरिरयपरिमाणत्वात् मूले विस्तीर्णोऽतिपृथुत्वात्, मध्ये संक्षिप्ते मध्यविस्तारतवात्, उपरि तनुकः स्तोकबाहल्यभावात्, अन्तः श्लक्ष्णो मृष्ट इत्यर्थ मध्ये 'उदग्रः' प्रधानः बहि 'दर्शनीयः' नयनमनोहारी 'ईषत् ' मनाक् सन्निषण्णः सिंहनिषीदनेन निषीदनात्, तथा चाह
'सिंहनिषादी' सिंहवन्निषीदतीत्येवंशीलः सिंहनिषादी, यथा सिंहोऽग्रेतनं पादयुगलमुत्तम्य पश्चात्तनं तु पादयुग्मं सङ्कोच्य पुताभ्या मनागलग्नो निषीदति तथा निष्ण्णश्च शिरः प्रदेशे उन्नतः पञ्चाद्भागे तु निम्नोनिम्नतरः एवं मानुषोत्तरोऽपि जम्बूद्वीपवदिशि छिन्नटङ्कः स चोन्नतः पाश्चात्यभागे तूपरितनभागादारभ्य पृथुत्वप्रदेशवृद्धया निम्नोनिम्नतर इति, एतदेवातिव्यक्तमाह-'अवद्धजवरासिसंठाणसंठिए' इति अपगतमर्द्ध यस्य सोऽर्पाद्धः स चासौ यवश्च राशिश्च अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन संस्थितः, यथा यवो राशिश्च धान्यानमपान्तराले ऊर्ध्वाधोभागेन छिनो मध्यभागे छिन्न इव भवति बहिर्भागे तु शनैः शनैः पृथुत्ववृद्धया निम्नो निम्नतरस्तद्वदेषोऽपि, यवग्रहणं पृथग्व्याख्यातमन्यत्र केवलापार्द्धयवसंस्थानतयाऽपि प्रतिपादनात् उक्तञ्च"जंबुणयामओ सो रम्मो अद्धजवसंठिओ भणिओ ।
119 11
सिंहनि सादीएणं दुहाकओ पुक्खरद्दीवो ॥"
'सव्वजंबूणयामए' इति सर्वात्मना जाम्बूनदमयः 'अच्छे जाव पडिरूवे' इति प्राग्वत् । 'उभओ पासि' मित्यादि उभयोः पार्श्वयोरन्तर्भागे मध्यभागे चेत्यर्थ प्रत्येकमेकैकभावेन द्वाभ्यां पद्मवरंवेदिकाभ्यां वनखण्डाभ्यां च 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपि पद्मवरवेदिकावनखण्डयोः प्रमाणं वर्णकश्च प्राग्वत् ।
साम्प्रतं नामनिमित्तमभिधित्सुराह - 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते- मानुषोत्तरः पर्वतः मानुषोत्तरः पर्व्वतः ? इति, भगवानाह - गौतम ! मानुषोत्तरपर्वतस्य 'अन्तः' मध्ये मनुष्याः उपरि 'सुवर्णा' सुवर्णकुमारा देवाः बहि सामान्यतो देवाः, ततो मनुष्याणामुत्तरः- पर इति मानुषोत्तरः । अथान्यद् गौतम ! मानुषोत्तरं पर्वतं मनुष्या न कदाचिदपि व्यतिव्रजितवन्तः व्यतिव्रजन्ति व्यतिव्रजिष्यन्ति वा, किं सर्वथा न ? इत्याह- नान्यत्र, चारमेन पञ्चम्यर्थे तृतीया प्राकृतत्वात् 'चारणात्' जङ्गाचारणलब्धिसंपन्नात् विद्याधराद् देवकर्मण एव क्रियया देवोत्पादनादित्यर्थः, चारणादयो व्यतिव्रजयन्त्यपि मानुषोत्तरं पर्वतमिति तद्वर्जनं ततो मानुषाणामुत्तरः- उच्चैस्तरोऽलङ्घनीयत्वान्मानुषोत्तरः, तथा चाह- 'से एएणट्टेण' मित्याद्युपसंहारवाक्यं गतार्थं ।
सम्प्रत्येतावानेव मनुष्यलोकोऽत्रैव च वर्षवर्षधरादय इत्येततसूत्रं प्रतिपादयितुकाम
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International