________________
३७०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २६६
मंडलसंकमणं पुण अब्मिंतर बाहिरं तिरिए ।
वृ. 'रजनिकरदिनकराणां' चन्द्रादित्यानामूर्द्धं वाऽधो वा सङ्क्रमो न भवति तथा जगत्स्वाभाव्यात्, तिर्यक् पुनर्मण्डलेषु सङक्रमणं भवति, किंविशिष्टमित्याह - 'साभ्यन्तरबाह्यम्' अभ्यन्तरं च बाह्यं च अभ्यन्तरबाह्यं सह अभ्यन्तरबाह्यं यस्य येन वा तत् साभ्यन्तरबाह्यं, एतदुक्तं भवति ? - सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु सङक्रमणं यावत्सर्वबाह्यमण्डलं, सर्वबाह्याच मण्डलादर्वाग् मण्डलेषु तावत्सङ्क्रमणं यावत्सर्वाभ्यन्तरमिति ।
मू. (२६७)
रयणियरदिनयराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं ।।
वृ. 'रजनिकरदिनकराणां' चन्द्रादित्यानां नक्षत्राणां महाग्रहाणां च 'चारविशेषेण' तेन तेन चारेण सुखदुःखविधयो मनुष्याणां संभवन्ति, तथाहि - द्विविधानि सन्ति सदा मनुष्याणां कर्माणि तद्यथा - शुभवेद्यानि अशुभवेद्यानि च कर्मणां च सामान्यतो विपाकहेतवः पञ्च, तद्यथा - द्रव्यं क्षेत्रं कालो भावो भवश्च, उक्तञ्च
7
119 11
"उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया ।
दव्वं खेक्तं कालं भावं भवं च संपप्प ॥"
शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्य क्षेत्रादिसामग्री विपाकहेतुः, अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, ततो यदा येषां जन्मनक्षत्राद्यनुकूलश्चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य विपाकं प्रपद्यन्ते, प्रपन्नविपाकानि शरीरनीरोगतासंपादनतो धनवृद्धिकरणेन च वैरोपशमनतः प्रियसंप्रयोगसंपादनतो वा यदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परविवेकिनः स्वल्पमपि प्रयोजनं शुभतिथिनक्षत्रावारभंते न तु यथा कथञ्चन । अत एव जिनानामपि भगवतामाज्ञा प्रव्राजनादिकमधिकृत्यैवमर्त्तिष्ट - यथा शुभ क्षेत्रे शुभदिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादी प्रव्राजनव्रतारोपणादि कर्तव्यं नान्यथा, तथा चोक्तं पञ्चवस्तुके
119 11 “एसा जिणाण आणा खेत्ताईया य कम्मुणो भणिया । उदयाइकारणं जं तम्हा सव्वत्थ जइयव्वं ।।"
अस्या अक्षरगमनिका - एषा जिनानामाज्ञा यथा शुभक्षेत्रे सुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रव्राजनव्रतारोपणादि कर्त्तव्यं नान्यथा, अपिच - क्षेत्रादयोऽपि कर्म्मणामुदयादिकारणं भगवद्भिरुक्तास्ततोऽशुभद्रव्यक्षेत्रादिसामग्रीमवाप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभक्षेत्रादिसामग्रीं तु प्राप्य जनानां शुभकर्म्मविपाकसम्भव इति संभवति निर्विघ्नं सामायिकपरिपालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादी यतितव्यं, ये तु भगवन्तोऽतिशयमन्तस्ते अतिशयबलादेव निर्विघ्नं सविघ्नं वा सम्यगवगच्छन्ति ततो न शुभतिथिमुहूर्तादिकमपेक्षन्त इति तन्मार्गानुसरणं छद्मस्थानां न न्याय्यं तेन ये च परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिषभूतशास्त्र गुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिपन्थिनः स्वमतिकल्पितसामाचारीका अभिदधति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org