SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० क्षत्रं तत्समश्रेणिव्यवस्थितेऽपि उत्तरभाग एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रे षड्धातकीषण्डे एकविंशति कालोदेषट्त्रिंशत्पुष्करा॰, एवं श्रवणादिपङ्कयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका २ वेदितव्या इति भवंति सर्वसङ्ख्यया षट्पञ्चाशत्सङ्ख्या नक्षत्राणां पङ्कयः, एकैका च पङ्कित षट्षष्टिसङ्खयेति। मू. (२६३) छावत्तरं गहाणं पंतिसयं होइ मणुयलोगंमि। छावट्ठी छावट्ठी य होति एक्केकया पंती। पृ. ग्रहाणां अङ्गारकप्रभृतीनांसर्वसङ्ग्ययामनुष्यलोकेषट्सप्तत्यधिकंपङ्किाशतंभवति, एकैकाच पङ्कितर्भवति षट्षष्टि; अत्रापीयंभावना-जम्बूद्वीपे दक्षिणतोऽर्द्धभागेएकस्य शशिनः परिवारभूता अङ्गारकप्रभृतयोऽष्टाशीतिहा उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अङ्गारकप्रभृतयएवान्येऽष्टाशीतिग्रहाः, तत्रदक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभाग एव द्वावङ्गारको लवणसमुद्रे षड् धातकीषण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराः इति, एवं शेषा अपि सप्ताशीतिर्ग्रहाः पङ्क्त्या व्यवस्थिताः प्रत्येक षट्षष्टि २ वेदितव्याः, एवमुत्तरतोऽप्यर्द्धभागेऽङ्गारकप्रभृतीनामष्टाशीतेग्रहाणांपङ्कयः प्रत्येकं षट्षष्टिसङ्ख्याका २ भावनीया इति भवति सर्वसङ्ख्यया ग्रहाणां षट्सप्ततंपङ्कितशतं, एकैका च पङ्कित षट्षष्टिसङ्ख्याकेति। मू. (२६४) ते मेरु परियडता पयाहिणावत्तमंडला सब्वे। अणवडियजोगेहिं चंदा सूरा गहगणा य॥ वृ. 'ते' मनुष्यलोकवर्तिनः सर्वे चंद्राः सर्वे सूर्या सर्वे ग्रहगणा अनवस्थितैर्यथायोगमन्यैरन्यैर्नक्षत्रैः सहयोगमुपलक्षिताः पयाहिणावत्तमंडला' इति प्रकर्षेण सर्वासुदिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्ते-मण्डलपरिभ्रमणरूपे सप्रदक्षिणः २ आवत्तॊ येषां मण्डलानां तानि प्रदक्षिणावर्तानि तानि मण्डलानि मेहं (प्रति) येषां ते प्रदक्षिणावर्तमण्डला मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डलगत्या परिभ्रमन्तीति, इह चन्द्रादित्यग्रहाणां मण्डलान्यनवस्थितानि, यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेषां संचरिष्णुत्वात्। मू. (२६५) नखत्ततारगाणं अवट्ठिया मंडला मुणेयव्या। तेऽविय पयाहिणावत्तमेव मेरुं अनुचरंति ॥ पृ. नक्षत्रतारकाणां तु मण्डलान्यनवस्थितान्येव, तथा चाह-नक्षत्राणां तारकाणां च मण्डलान्यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति ?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च मण्डलमिति, न चैवं व्यवस्थितमण्डलत्वोक्तावेवमाशङ्कनीयं यथा तेषां गतिरेव न भवतीति, यत आह-'तेऽविय' इत्यादि, तान्यपि नक्षत्राणि तारकाणिच, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्,प्रदक्षिणावर्तमेव, इदंक्रियाविशेषणं, मेरुमनुलक्ष्यीकृत्यचरन्ति, एतच्च मेरुंलक्ष्यीकृत्य तेषां प्रदक्षिणावर्तचरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि। मू. (२६६) रयणियरदिनयराणं उडे व अहे व संकमो नथि। 924 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy