SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २५९ नक्षत्राणि भवन्ति षट्पञ्चाशत्, किमुक्तं भवति ? -षटपञ्चाशन्नक्षत्रसङ्ख्यकमेकैकं नक्षत्रपिटकमिति, अत्रापि षड्षष्टिसङ्ख्याभावनैवम् एकं नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षड् धातकीषण्डे एकविंशति कालोदे षटूत्रिंशदभ्यन्तरपुष्करार्द्ध इति । पू. (२६०) छावट्ठी पिडगाई महागहाणं तु मणुयलोगंमि । छावत्तरं गहराय च होइ एक्के कए पिडए । वृ. महाग्रहाणामप्यङ्गारकप्रभृतीनां सर्वस्मिन् मनुष्यलोके सर्वसङ्ख्यया पिटकानि भवन्ति षट्षष्टि, ग्रहपिटकपरिमाणं च शशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके भवति षट्सप्ततं - षट्सप्तत्यधिकं ग्रहशतं, षट्सप्तत्यधिकग्रहशतपरिमाणमेकैकं ग्रहपिटकपरिमाणमिति भावः, षट्षष्टिसत्याभावना प्राग्वत् । पू. (२६१) चत्तारि य पंतीओ चंदाइयाण मणुयलोगंमि । छावट्टिय छावट्टिय होइ य एक्केकया पंती ॥ वृ. इह मनुष्यलोके चन्द्रादित्यानां चतम्नः पङ्क्त्यो भवन्ति, तद्यथा - द्वे पङ्क्ती चन्द्राणां द्वे सूर्याणां एकैका च पङ्क्तिर्भवति षट्षष्टि षट्षष्टिः षट्षष्टिषटषष्टिसूर्यादिसङ्ख्या, तदुभावना चैवम् - एकः किल सूर्यो जम्बूद्वीपे मेरोर्दक्षिणभागे चारं चरन् वर्त्तते एक उत्तरभागे, एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारंचरन् वर्तते ततः समश्रेणिव्यवस्थिती द्वौ दक्षिणभागे एव सूर्यौ लवणसमुद्रे षड्घातकीषण्डे एकविंशति कालोदे षटत्रिंशदभ्यन्तरपुष्करार्द्धे, इत्यस्यामपि सूर्यपङ्क्ते सर्वसङ्घयया षट्षष्ठि सूर्याः । तथा योऽपि च मेरोरुत्तरभागे सूर्यश्चारं चरन् वर्त्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ उत्तरभागे सूर्यौ लवणसमुद्रे षड् धातकीषण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्करार्द्धे इत्यस्यामपि सूर्यपङ्कौ सर्वसत्यया षट्षष्टि सूर्या, तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्त्तते चन्द्रमास्तत्सम श्रेणिव्यवस्थितौ द्वौ पूर्वभागे एक चन्द्रमसी लवणसमुद्रे षड् धातकीषण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्करार्द्धे इत्यस्यां चन्द्रपङ्क्तौ सर्वसत्यया षट्षष्टिश्चन्द्रमसः एवं यो मेरोरपरभागे चन्द्रभास्तन्मूलायामपि पङ्कौ षड्षष्टिश्चन्द्रमसो वेदितव्याः ॥ , मू. (२६२) छप्पन्नं पंतीओ नक्खत्ताणं तु मणुयलोगंमि । छावट्ठी छावट्ठी हवइ य एक्क्कया पंती ॥ वृ. नक्षत्राणां मनुष्यलोके सर्वसङ्घयया पङ्क्त्यो यो भवन्ति षट्पंचाशत्, एकैका च पङ्क्तिर्भवति षट्षष्टि षट्षष्टिस्तद्भवपरिमाणा इत्यर्थः तथाहि किलास्मिन् जम्बूद्वीपे दक्षिणतोऽर्द्धमागे एकस्य शशिनः परिवारभूतान्यभिजिदादीन्यष्टाविंशतिसङ्ख्यानि नक्षत्रा क्रमेण व्यवस्थितानि चारं चरन्ति, उत्तरतोऽर्द्धभागे द्वितीयस्य राशिनः परिवारभूतान्यष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण २ व्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यत्राभिजिन्नक्षत्रं तत्सम श्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे वणसमुद्रे षड् धातकीषण्डे एकविंशति कालोदे षटत्रिंशदभ्यन्तरपुष्करार्द्ध इति । सर्वसङ्घयया षटषष्टिरभिजिन्नक्षत्राणि पङ्क्त्या व्यवस्थितानि, एवं श्रवणादीन्यपि दक्षिणतोऽर्द्धभागेपङ्क्त्या व्यवस्थितानि षट्षष्टिसङ्ख्याकानि भावनीयानि, उत्तरतोऽप्यर्द्धभागे दभिजिन्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy