SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३, दीव० ३६७ ___ बहिया पुण ताराओ जिनेहिं भणिया असंखेजा। पृ. सम्प्रति सकलमनुष्यलोकगतारागणस्योपसंहारमाह-एषः' अनन्तरोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्ख्ययामनुष्यलोके आख्यात इतिगम्यते, बहि पुनर्मनुष्यलोकायास्तारास्ताः 'जिनैः सर्वस्तीर्थकृभिर्भणिता असङ्ख्याता द्वीपसमुद्राणामसखयातत्वात्, प्रतिद्वीपंप्रतिसमुद्रं च यथायोगं सख्यातानामसङ्ख्यातानां च ताराणां सद्भावात्। मू. (२५६) एवइयंतारग्गंजं भणियं माणुसंभि लोगंमि। चारं कलंवुयापुप्फसंठियं जोइसंचरइ॥ पृ. 'एतावत् एतावत्सङ्ख्याकं ताराग्रं तारापरिमाणं यत् अनन्तरं भणितं मानुषे लोके तत् ज्योतिष ज्योतिषदेवविमानरूपं कदम्बपुष्पसंस्थितं कदम्बपुष्पवद्अधःसङ्कुचितमुपरि विस्तीर्णं उत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमिति भावः 'चारं चरति' चारं प्रतिपद्यते, तथा जगत्स्वाभाव्यात्, ताराग्रहणं चोपलक्षणं, ततः सूर्यादयोऽपि यथोक्तसङ्ख्याका मनुष्यलोके तथाजगत्स्वाभाव्याचारंप्रतिपद्यन्त इति द्रष्टव्यं । मू. (२५७) रविससिगहनखत्ता एवइया आहिया मणुयलोए। जेसिं नामागोयंन पागया पन्नवेहिति।। वृ.सम्प्रत्येतद्गतमेवोपसंहारमह-रविशशिग्रहनक्षत्राण, उपलक्षणमेतत्तारकाणिच, 'एतावनति' एतावत्सङ्ख्याकानि सपूर्वार्द्ध मनुष्यलोके, येषां किम् ? इत्याह-येषां सूर्यादीनां यथोक्तसल्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं नामगोत्राणि, इहान्वर्धयुक्तं नाम सिद्धान्तसपरिभाषयानामगोत्रमित्युच्यते, ततोऽयमर्थ-नामगोत्राणि-अन्वर्थयुक्तानि नामानि, यदिवा नामानि च गोत्राणि च नामगोत्राणि 'प्राकृताः' अनतिशायिनः पुरुषाः कदाचनापि न प्रज्ञापतिष्यन्ति, केवलंयदात्वाह सर्वज्ञएवं,ततइदंसूर्यादिसंज्यानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयं। म. (२५८) छावट्ठी पिडगाइं चंदाइचा मणुयलोगमि। दो चंदा दो सूरा यहोति एकेक्कए पिडए ।। वृ. इह द्वौ चन्द्रौ द्वौ सूर्यावकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि सर्वसङ्ख्यया मनुष्यलोके षट्षष्टिसहयानि । अथ किंप्रमाणं पिटकमिति पिटकप्रमाणमाहएकैकस्मिन् पिटके द्वौ चन्द्रौ द्वौ सूर्यौ भवत इति, किमुक्तंभवति?-द्वौ चन्द्रौ द्वौ सूर्यावित्येतावप्रमाणमेकैकचन्द्रादित्यानां पिटकमिति, एवंप्रमाणंच पिटकंजम्बूद्वीपे एक, द्वयोरेव चन्द्रमसोईयोरेव सूर्ययोस्तत्र भावतः, द्वे पिटके लवणसमुद्रे चतुर्णा चन्द्रमसां चतुर्णा सूर्याणां च तत्र भावात्, एवं षट् पिटकानि धातकीषण्डे एकविंशति कालोदे षटत्रिंशदभ्यन्तरपुष्कराः इति भवन्ति सर्वमीलने चन्द्रादित्यानां षटषष्टि पिटकानि ॥ मू. (२५९) छावट्ठीपिडगाइं नक्खताणं तु मणुयलोगमि। ___ छप्पन्नं नक्खत्ता य होति एक्कक्कए पिडए । वृ. सर्वस्मन्नपि मनुष्यलोके सर्वसङ्ख्यया नक्षत्राणां पिटकानि भवन्ति षट्षष्टि, नक्षत्रपिटकपरिमाणंच शशिद्वयसम्बन्धिनक्षत्रसज्ञ्ज्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy