________________
प्रतिपत्तिः -३, दीव०
३७१ यथा न प्रव्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणे यतितव्यं, नखलु भगवान् जगत्स्वामी प्रव्राजनायोपस्थितेषु शुभतिथ्यादिनिरीक्षणं कृतवानिति तेऽपास्ता द्रष्टव्या इति। म. (२६८) तेसिं पविसंताणं तावक्खेत्तं तु वहए नियमा।
तेणेव कमेण पुणो परिहायइ निक्खमंताणं ।। वृतेषां-सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतांतापक्षेत्रप्रतिदिवसंक्रमेण नियमादायामतोवर्द्धते, येनैवचक्रमेण परिवर्द्धते तेनैवक्रमेणसर्वाभ्यन्तरान्मण्डलाद्वहिनिष्क्रमतां परिहीयते, तथाहि-सर्वबाह्यमण्डलेचारंचरतां सूर्याणां चन्द्रमसांच प्रत्येकंजम्बूद्वीपचक्रवालस्य दशधा प्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्टयधिकषटत्रिंशच्छ-तप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते।
___ चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णमासीसम्भवे क्रमेण प्रतिमण्डलं षडविंशतिर्भागा सप्तविंशतितमस्य च भागस्यैकः सप्तभागः, एवंच प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरमण्डले चारं चरतस्तदा प्रत्येकं जम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरमण्डलाबहिनिष्क्रमेण सूर्यस्य प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तु मण्डलेषु प्रत्येकं पौर्णसामीसम्भवे क्रमेण प्रतिमण्डलं षड्विंशतिर्भागाः सप्तविंशतितमस्य च भागस्य चैकः सप्तभाग इति । मू. (२६९) तेसिं कलंबुयापुप्फसंठिया होइ तावखेत्तपहा।
अंतो य संकुया बाहि वित्थडा चंदसूरगमा ।। वृ. 'तेषां' चन्द्रसूर्याणां तापक्षेत्रपन्थाः कलम्बुयापुष्प-नालिकापुष्पं तद्वत्संस्थिताः कलम्बुयापुष्पसंस्थिताः, एतदेव व्याचष्टे--अन्तः--मेरुदिशि सङ्कुचिता बहि:-लवणदिशि विस्तृताः, एतच्चन्द्रप्रज्ञप्ती सूर्यप्रज्ञप्तौ चतुर्थे प्राभृते सविस्तरं भावितमिति ततोऽवधार्यम् । मू. (२७०) केणं वइति चंदो परिहाणी केण होइ चंदस्स।
कालो वा जोण्हो वा केणऽनुभावेण चंदस्स ।। वृ. सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयति-केन कारणेन शुक्लपक्षे वर्द्धते? केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति? केन वा 'अनुभावेन' प्रभावेण चन्द्रस्यैकः पक्षः कृष्णो भवति एकः 'ज्योत्स्नः' शुक्लः? इति, एकमुक्ते भगवानाह-इह द्विविधो राहुस्तद्यथापर्वराहुर्नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमाने चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरितेच कृते लोके ग्रहणमिति प्रसिद्धि, स इह न गृह्यते। मू. (२७१) किण्हं राहुविमाणं निचं चंदेण होइ अविरहिये।
चउरंगुलमप्पत्तं हिट्ठा चंदस्सतं चरइ ।। वृ. यस्तु नित्यराहुस्तस्य विमानं कृष्णं तथाजगत्स्वाभाव्याचन्द्रेण सह 'नित्यं' सर्वकालमविरहितं तथा 'चउरंगुलेन' चतुरङ्गुलैरप्राप्तसत्‘चन्द्रस्य' चन्द्रविमानस्याधस्ताचरति, तचैवंचरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसंकृष्णपक्षे च शनैः शनैरावृणोति। मू. (२७२) बावहि बावढि दिवसे दिवसे उ सुक्कपक्खस्स।
जं परिवड्डइ चंदो खवेइ त चेव कालेणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org