SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५४ जीवाजीवाभिगमउपासूत्रम् ३/दीव०/२२१ गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तम्॥ लवणस्सणंभंते!' इत्यादि, लवणस्य भदन्त! समुद्रस्य किंमहती' विस्तारमधिकृत्य किंप्रमाणमहत्वा उदकमाला-समपानीयोपरिभूता षोडशयोजनसहस्रोच्छ्रया प्रज्ञप्ता?, भगवानाह-गौतम! दश योजनसहस्राणि उदकमाला प्रज्ञप्ता ।। म.(१२२) लवणे णं भते! समुद्दे किंसंठिए पन्नते?, गो० ! गोतित्थसंठिते नावासंठाणसंठिते सिप्पिसंपुडसंठिए आसखंधसंठिते वलभिसंठिते वट्टे वलयागारसंठाणसंठिते पन्नते।लवणे गंभंते! समुद्दे केवतियं चकवालविक्खंभेणं? केवतियंपरिक्खेवेणं? केवतियं उब्बेहेणं? केवतियं उस्सेहेणं? केवतियंसव्वग्गेणं पन्नते ? गोयमा ! लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नरस जोयणसतसहस्साइं एकासीतिं च सहस्साइंसतंच इगुयालं किंचिविसेसूणे परिक्खेवेणं, एगं जोयणसहस्सं उब्वेघेणं सोलस जोयणसहस्साइं उस्सेहेणं सत्तरस जोयणस० सव्वग्गेणं पा १.'लवणेणंभंते!' इत्यादि, लवणो भदन्त! समुद्रः किंसंस्थितः प्रज्ञप्तः?,भगवानाहगौतम! गोतीर्थसंस्थानसंस्थितःक्रमेण नीचैर्नीचस्तरामुद्वेधस्य भावात, नावासंस्थितःबुघ्नादूर्द्ध नाव इव उभयोरपि पार्श्वयोः समतलं भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भवेन उन्नताकारत्वात्, 'सिप्पसंपुडसंठिते' इति शुक्तिकासंपुटसंस्थानसंस्थितः, उद्वेधजस्य जलवृद्धिजलस्य चैकत्रमीलनचिन्तायांशुक्तिकासंपुटाकारसाश्यसम्भवात, 'अश्वस्कन्धसंस्थितः उभयोरपि पार्श्वयोः पञ्चनवतियोजनसहनुपर्यन्तेऽश्वस्कन्धस्येवोन्नततयाषोडशयोजनसहस्रप्रमाणोच्चैस्त्वयोः शिखाया भावात्, 'वलभीसंस्थितः वलभीगृहसंस्थानसंस्थितः दशयोजनसहस्रप्रमाणविस्तारायाः शिखाया वलभीगृहाकाररूपतया प्रतिभासनात, तथावृत्तोलवणसमुद्रोवलयाकारसंस्थितः,चक्रवालतया तस्यावस्थानात् । सम्प्रति विष्कम्भादिपरिमाणमेककालं पिपृच्छिषुराह 'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो मदन्त ! समुद्रः कियचक्रवालविष्कम्मेन कियत्परिक्षेपेण कियदुद्वेधेन-उण्डत्वेन किय-दुत्सेधेन कियत्सर्वाग्रण-उत्सेधोद्वेधपरिमाणसामस्त्येन प्रज्ञप्तः?, भगवानाह-गौतम! लदण्णसमुद्रोद्वेयोजनशतसहस्र चक्रवालविष्कम्भेन प्रज्ञप्तः, पञ्चदशयोजनशतसहसणिएकाशीति सहस्राणिशतंचैकोनचत्वारिंशं किद्भिद्विशेषोनं परिक्षेपेण प्रज्ञप्तः, एकंयोजनसहनमुद्वेधेन, षोडशयोजनसहस्राण्युत्सेधेन, सप्तदशयोजनसहस्राणि सर्वाग्रेण-उत्सेधोद्वेधमीलनचिन्तायां। इहलवणसमुद्रस्यपूर्वाचार्यैर्धनप्रतरगणितभावनाऽपिकृता सा विनेयजनानुग्रहादयते, तत्रप्रतरभावना क्रियते, प्रतरानयनाथ चेदं करणं-लवणसमुद्रसत्कविस्तारपरिमाणाद्विलक्षयोजनरूपा दश योजनसहस्राणि शोध्यन्ते, तेषु च शोधितेषु यच्छेषं तस्याई क्रियते, जातानि पञ्चनवति सहस्राणि, यानि च प्राक् शोधितानि दश सहस्रणि तानि च तत्र प्रक्षिप्यन्ते, जातं पञ्चोत्तरं लक्षं एतच्च कोटीति व्यवहियते, अनया च कोटया लवणसमद्रस्य मध्यभा- गवर्ती परिरयोनवलक्षाअष्टचत्वारिंशत्सहस्राणिषट्शतानित्र्यशीत्यधिकानि इत्येवंपरिमाणो गुण्यते, ततःप्रतरपरिमाणंभवति,तबेदं नवनवतिकोटिशतानिएकषष्टिकोट्यः सप्तदश लक्षाः पञ्चदश सहस्राणि उक्तश्च ॥१॥ “वित्थाराओ सोहिय सदसहस्साई सेसअद्धमि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy