________________
-
प्रतिपत्तिः-३, दीव० समुद्रवेदिकान्ताचारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्यामात्रयाकियन्ति योजनानि यावदुत्सेधपरिवृद्धि?, मगवानाह-गौतम! 'लवणस्सणं समुदस्से'त्यादि, इह निश्चयतो लवणसमुद्रस्यजम्बूद्वीपवेदिकातोलवणसमुद्रवेदिकातश्चसमतले भूभागेप्रथमतो जलवृद्धिरकुलसङ्ख्येयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवृद्धया जलवृद्धि क्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽपि पञ्चनवतियोजनसहस्रपर्यन्ते सप्त शतानि, ततः परं मध्यदेशभागे दशयोजनसहनविस्तारे षोडश योजनसहस्राणि ।
इहतुषोडशयोजनसहस्रप्रमाणायाः शिखायाः शिरसिउभयोश्च वैदिकान्तयोर्मूलेदवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि करणगत्या तदाभाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यते लवणस्यसमुद्रस्योभयतो जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताच पञ्चनवतिं प्रदेशान् गत्वा षोडश प्रदेशा उत्सेधपरिवृद्धि प्रज्ञप्ता, पञ्चनवर्ति वालाग्राणि गत्वा षोडश वालाग्राणि, एवं यावत् पञ्चनवर्ति योजनसहस्राणि गत्वा षोडशयोजनसहस्राणि, अत्रेयं त्रैराशिकभावना-पञ्चनवतियोजनसहस्रातिक्रमे षोडश योजनसहस्राणि जलोत्सेधस्ततः पञ्चनवतियोजनातिक्रमेक उत्सेधः?, राशित्रयस्थापना-१५०००।१६०००।९५/अनादिमधयो राश्योःशून्यत्रिकस्यापर्वर्तना ९५।१६।९५, ततो मध्यमराशेः षोडशलक्षणस्यान्त्येनपश्चनवतिलक्षणेन गुणने जातानि पञ्चदश शतानि विंशत्यधिकानि १५२०, एषामादिराशिना पञ्चनवतिलक्षणेन भागे हते लब्धानिषोडश योजनानि, उक्तञ्च॥१॥ "पंचाणउइसहस्से गंतूणं जोयणाणि उभओवि ।
उस्सेहेणं लवणो सोलससाहस्सिओ मणिओ॥ ॥२॥ पंचाणऊई लवणे गंतूणंजोयणाणि उमओवि ।
उस्सेहेणं लवणो सोलस किल जोयणे होइ॥ तत्रयदिपञ्चनवतियोजनपर्यन्तेषोडशयोजनावगाहस्ततोऽल्लभ्यतेपञ्चनवतिगव्यतपर्यन्ते षोडश गव्यूतानि पञ्चनवतिधनुःपर्यन्ते षोडश धनूंषीत्यादि।
सम्प्रति गोतीर्थप्रतिपादनार्थमाह
मू. (२२१)लवणस्सणंभंते! समुहस्स केमहालएगोतित्यपगो० उमओपासिपंचानउति २जोयणसहस्साई गोतित्थं प०॥लवणस्स गंभंते! समुदस्स केमहालए गोतित्यविरहिते खेत्ते प०गो० दस जोयणसहस्साई गोतित्थविरहित खेते पन्नते ॥ लवणस्स ण मते! समुहस उदगमाले पन्०गो० दस जोयणसहस्साइं उदगमाले पन्नते॥
कृ.'लवणसणंभंते!' इत्यादि, लवणस्स भदन्त ! समुद्रस्य किंमहत्' किंप्रमाणमहत्वं गोतीर्थ प्रज्ञप्तं ?, गोतीर्थमिव गोतीर्थक्रमेण नीचो नीचतरः प्रवेशमार्गः, भगवानाह-गौतम ! लवणस्ससमुद्रस्योभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताच्चारभ्येत्यर्थपञ्चनवर्ति योजनसहस्राणियावद्गोतीर्थंप्रज्ञप्तम्, उक्तश्च-"पंचाणउइसहस्सेगोतित्यंउभयतोविलवणस्सा" इति ___'लवणस्स णं भंते !' इत्यादि, लवणस्स भदन्त ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्वं गोतीर्थविरहितं क्षेत्रं प्रज्ञप्तं ?, भगवानाह-गौतम ! लवणस्य समुद्रस्य दश योजनसहस्राणि 1923
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org