SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० सत्तरस एकवीसाईजोयणसताई तं चेव पमाणं जं गोथूभस्स नवरि सब्बरयणामए अच्छे जाव निरवसेसंजावसपरिवारंअट्ठो से बहूइंउप्पलाइंककोडप्पभाइंसेसंतंचेवणवरि कक्कोडगपव्वयस्स उत्तरपुरच्छिमेणं एवं तं चेव सव्वं, कद्दमस्सवि सो चेव गमओ अपरिसेसिओ, नवरि दाहिणपुरच्छिमेणं आवासो विज्जुप्पभारायहाणी दाहिणपुरस्थिमेणं, कइलासेविएवं चेव, नवरि दाहिणपञ्चत्थिमेणं कयलासावि रायहाणी ताए चेव दिसाए, अरुणप्पभेवि उत्तरपञ्चस्थिमेणं रायहाणीवि ताए चेव दिसाए, चत्तारि विगप्पमाणा सव्वरयणामया य ।। वृ. 'कइ णमित्यादि, कति भदन्त! अनुवेलन्दरराजाः प्रज्ञप्ताः ?,भगवानाह-गौतम ! चत्वारोऽनुवेलन्धरराजाः प्रज्ञप्तास्तद्यथा ककोंटकः १ कर्दगः २ कैलासः ३ अरुणप्रभश्च । 'एएसिण मित्यादि, एतेषां भदन्त! चतुर्णामनुवेलन्धरराजानां कतिआवासपर्वताः प्रज्ञप्ताः?, भगवानाह-गौतम ! एकैकस्य एकैकभावेन चत्वारोऽनुवेलन्धरराजानाभावासपर्वताः प्रज्ञप्तास्तद्यथा-कर्कोटको विद्युप्रभः कैलासः अरुणप्रभश्च, कर्कोटकस्य कर्कोटकः कईमस्य विद्युत्प्रभः कैलाशस्य कैलाशः अरुप्रभस्यारुणप्रभ इत्यर्थः । ___'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्योत्तरपूर्वस्यादिशि लवणसमुद्रंद्वाचत्वारिंशतंयोजनसहस्राण्यवगाह्य अत्र एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य भुजगराजस्य कर्कोटको नामावासपर्वतकःप्रज्ञप्तः, 'सत्तरसएकवीसाई जोयणसयाई' इत्यादिका गोस्तूपस्यावासपर्वतस्यया वक्तव्यतोक्तासैवेहापिअहीनानतिरिक्ता भणितव्या, नवरं सर्वरत्नमय इति वक्तव्यं, नामनिमित्तचिन्तायामपि यस्माच्च क्षुल्लाक्षुल्लिकासु वापीषुयावद्विलपतिषुबहून्युत्पलानियावत् शतसहस्रपत्राणि कर्कोटकप्रमाणि कर्कोटकाकाराणि ततस्तानि कर्कोटकादीनि व्यवहियन्ते तद्योगात्पर्वतोऽपिकर्कोटकः,तथा कर्कोटकनामा देवस्तत्र पल्योपमस्थितिकः परिवसति ततः कर्कोटकस्वामित्वात्कर्कोटकः, राजधान्यपि कर्कोटकस्यावासपर्वतस्योत्तरपूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रजयान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्य कर्कोटकाभिधाना विजयाराजधानीव प्रतिपत्तव्या । एवं कर्दमकैलाशारुणप्रभवक्तव्यताऽपिभावनीया, नवरंजम्बूद्वीपेद्वीपेमन्दरस्य पर्वतस्य लवणसमुद्रे दक्षिणपूर्वस्यांकर्दमकोदक्षिणापरस्यांकैलाशः अपरोत्तरस्यमामरुणप्रभः, नामनिमित्तचिन्तायामपि यस्मात्कर्दमके आवासपर्वते उत्पलादीनि कर्दमकप्रभाणि ततः कर्दमकभावना प्रागिव, अन्यच्च कर्दमके विद्युप्रभो नाम भावः पल्योपमस्थितिकः परिवसति, स च स्वभावाद् यक्षकर्दमप्रियः, यक्षकर्दमोनाम कुङ्कुमागुरुकर्पूरकस्तृरिकाचन्दनमेलापकः, उक्तञ्च॥१॥ “कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनामि च । महासुगन्धमित्युक्तं, नामतो यक्षकर्दमम्॥" ततःप्राचुर्येण यक्षकर्दमसम्भवाञ्चासौ पूर्वपदलोपे सत्यभामा भामेतिवत् कर्दम इत्युच्यते, कैलाशे कैलाशप्रमाण्युत्पलादीनि कैलाशनामा च तत्र देवः पल्योपमस्थितिकः परिवसति ततः कैलाशः, एवमरुणप्रभेऽपि वक्तव्यं, कर्दमकाराजधानी कर्दमस्यावासपर्वतस्य दक्षिणपूर्वया कैलाशा कैलाशस्यावासपर्वतस्य दक्षिणापरयाऽरुणप्रभा अरुणप्रभस्यावासपर्वतस्यापरोत्तरया तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रेऽरुणप्रभाराजधानी विजयाराज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy