SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३४२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२०५ तत्थ चउण्हं सामानियसाहस्सी ण'मित्यादि प्राग्वत्, नवरमत्र शङ्खा राजधानी वक्तव्या, तदेवं यतस्तद्गतान्युत्पलादीनिशङ्खाकाराणिशङ्खदेवस्वामिश्चायमतः शङ्खइति, से एएणतुण मित्याधुपसंहारवाक्यं गताएं, शङ्खा राजधानी सङ्घस्यावासपर्वतस्य पश्चिमायां दिशि तिर्यगसङ्खयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजयाराजधानीसद्दशी वक्तव्या ।। सम्प्रति दकसीमापर्वतवक्तव्यतामाह 'कहिणं भंते !' इत्यादि प्रश्नसूत्रं प्रतीतं, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहनाण्यवगाह्य अत्र' एतस्मिनवकाशे मनःशिलकस्य भुजगेन्द्रस्य भुजगराजस्य एकसीमो नामावासपर्वतः प्रज्ञप्तः, सोऽपि गोस्तूपपर्वतवदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् ।। इदानीं नामनिमित्तं बिभणिषुराह- से केणटेण’मित्यादि प्रतीतं, भगवानाह-गौतम! दकसीमे आवासपर्वतेशीताशीतोदयोर्महानद्योः श्रोतांसि-जलप्रवाहास्तत्र गतानि तस्माच्च तेन प्रतिहतानिप्रतिनिवर्तन्ते ततो दकसीमाकारित्वाद् दकसीमः, दकस्य सीमा-शीताशीतोदापानीयस्य सीमा यत्रासौ दकसीम इति व्युत्पत्तेः, अन्यच्च मनःशिलको भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति। 'सेणं तत्थ चउण्हं समानियसाहस्सीण मित्यादि प्राग्वत् नवरं मनःशिलाऽत्र राजधानी वक्तव्या, ततो मनःशिलस्य देवस्यदके लवणजलमध्ये सीमा, आवासचिन्तायांमर्यादा, ‘अत्रे'ति दकसीमे, मनःशिला च राजधानी दकसीमस्यावासपर्वतस्योत्तरतस्तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजयाराजधानीव वक्तव्या । तदेवमुक्ताश्चत्वारोऽपि वेलन्धराणामावासपर्वताः, सर्वत्र च गोस्तूपेनातिदेशः कृतः। मू. (२०६) कणगंकरययफालियमयाय वेलंधराणमावासा। अनुवेलंधरराईण पव्वया होति रयणमया ॥ वृ.अत्र च मूलदले विशेषस्ततस्तमभिधित्सुराह॥१॥ “कणगंकरययफालियमया य वेलंधराणमावासा। अनुवेलंधरराईण पव्वया होति रयणमया ।" वेलन्धराणां-गोस्तूपादीनामावासा गोस्तूपादयश्चत्वारः पर्वता यथाक्रमं कनकाङ्करजतस्फटिकमयाः, गोस्तूपः कनकमयो दकाभासोऽङ्करत्नमयः शङ्खोरजतमयो दकसीमः स्फटिकमय इति, तथा महतां वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धराश्चानुवेलन्धराः ते च ते राजानश्च अनुवेलन्धरराजास्तेषामावासपर्वता र्नमया भवन्ति। मू. (२०७) कइणंभंते! अनुवेलंधररायाणी पन्नत्ता?, गोयमा! चत्तारि अनुवेलंधरणागरायाणो पन्नत्ता, तंजहा कक्कडए कद्दमए केलासे अरुणप्पभे ॥ एतेसिं णं भंते ! चउण्हं अनुवेलंधरणागरायाणं कति आवासपव्वया पन्नत्ता? गोयमा! चत्तारि आवासपव्वया पन्नत्ता, तंजहा-कक्कोडए १ कद्दमए २ कइलासे ३ अरुणप्पभे ४ । कहि णं भंते ! कक्कोडगस्स अनुवेलंधरणागरायस्स कक्कोडए नाम आवासपव्वते पन्नते ?, गोयमा ! जंबुद्दीवे २ मंदरस्स पब्वयस्स उत्तरपुरच्छिमेणं लवणसमुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं कक्कोडगस्स नागरायस्स कक्कोडए नामं आवासपब्वते प० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy