SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० ३४१ तपूर्णत्वात्तद्वर्णसाश्याच गोस्तूपानीति प्रसिद्धानि, तद्योगादावासपर्वतोऽपि गोस्तूपः, अनादिकालप्रवृत्तोऽयं व्यवहार इति तेन नेतरेतराश्रयदोषः, एवमुत्तरत्रापि भावनीयं, तथा गोस्तूपश्चात्र भुजगेन्द्रो भुजगराजो महद्धिको यावत्करणात् महाद्युतिक इत्यादि परिग्रहः, सच चतुर्णा सामानिकसहमणां चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणां पर्षदांसप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षदेवसहनणां गोस्तूपस्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषांचबहूनां गोस्तूपराजधानीवास्तव्यानां देवानांदेवीनां चाधिपत्यं यावद्विहरति, ततो गोस्तूपदेवस्वाभिकत्वाच्च गोस्तूपः, ‘से एएणतुण मित्याधुपसंगारवाक्यं प्रतीतम् । सम्प्रति गोस्तूपां राजधानी पृच्छति-'कहि णं भंते !' इत्यादि, कत्र भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता? भगवानाह-गौतम! गोस्तूपस्यावास. पर्वतस्य पूर्वया दिशा तिर्यगसङ्खयेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता, साचविजयराजधानीसद्दशीवक्तव्या।तदेवमुक्तौगोत्तूपोऽधनादकाभासवक्तव्यतामाह 'कहिं णं भंते ! सिवगस्से'त्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपेमन्दरस्य पर्वतस्यदक्षिणतोलवणसमुद्रंद्वाचत्वारिंशतंयोजनसहरण्यवगाह्यात्रान्तरे शिवकस्य भुजगेन्द्रस्य भुजगराजस्य दकाभासो नामावासपर्वतःप्रज्ञप्तः, सच गोस्तूपवदविशेषेण वक्तव्यो यावत्सपरिवारं सिंहासनम्। अधुना नामनिमित्तं पिपृच्छिषुराह-'सेकेणखूण मित्यादि प्रश्नसूत्रं सुगमं, भगवानाहगौ०! दकाभास आवासपर्वतो लवणसमुद्रे सर्वासुदिक्षुस्वसीमातोऽष्टयोजनिके-अष्टयोजनप्रमाणे क्षेत्रे यदुदकं तत् ‘समन्ततः' सामस्त्येनातिविशुद्धाङ्कनामरत्नमयत्वेन स्वप्रभयाऽ- वभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति चन्द्र इव तापयतिसूर्य इव प्रभासयति ग्रहादिरिव ततो दकंपानीमाभासयति-समन्ततः सर्वासुदिक्षु अवभासयतीति दकाभासः, अन्यच्च शिवको नामात्र पर्वतेषु भूजगेन्द्रो भुजगराजो महर्द्धिको वक्तव्या, तस्मिंश्च परिवसति स आवासपर्वतो दकमध्येऽतीवाऽऽभासते शोभते इति दकाभासः, सेएएणद्वेण'मित्याधुप-संहारवाक्यं गतार्थ, शिवकाराजधानी दकामासस्यावासपर्वतस्यदक्षिणतोऽन्यस्मिन् लवणसमुद्रे विजयाराजधानीव भावनीया। अधुना शङ्खनामकावासपर्वतवक्तव्यतामाह-'कहि णं भंते !' इत्यादि, कव भदन्त ! शङ्खस्य भुजगेन्द्रस्य भुजगराजस्य शोनामावासपर्वतःप्रज्ञप्तः?, भगवानाह-गौतम जम्बूद्वीपे द्वीपे मन्दरस्यपर्वतस्यपश्चिमायां दिशि लवणसमुद्रं द्वाचत्वारिंशतंयोजनसहनाण्यवगाह्यात्रान्तरे शङ्खस्य भुजगेन्द्रस्य भुजगराजस्य शङ्खो नामावासपर्वतः प्रज्ञप्तः, स च गोस्तूपवदविशेषण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम्। इदानीं नामनिबन्धनमभिधित्सुराह-सेकेणद्वेण मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-शङ्के आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीषु यावद्विलपङ्किषु बहून्युत्पलानि यावत् शतसहसपत्राणि शङ्खाभानि-शङ्काकाराणि शङ्कवर्णानि-श्वेतानीति भावः शङ्खवर्णाभानि-प्रायः शङ्खवर्णसध्शवर्णानि, शङ्खश्चात्र भुजगेन्द्रो भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकःपरिवसति । सेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy