SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/२०५ तत्थ गतो सोए पडिहम्मति से तेणटेणंजाव णिच्चे मनोसिलए एत्य देवे महिड्डीए जाव से णं तस्य चउण्हं सामाणिय० जाव विहरति । कहिणं भंते ! मणोसिलगस्स वेलंधरणागरायस्स मनोसिला नाम रायहाणी?, गोल दगसीमस्स आवासपव्वयस्स उत्तरेणं तिरि० अन्नमिलवणे एत्थ णं मनोसिलिया नाम रायहाणी पन्नत्ता तं चेव पमाणं जाव मनोसिलाए देवे वृ. 'कतिणंभंते!' इत्यादि, कति भदन्त वेलन्धरनागराजाःप्रज्ञप्ताः? भगवानाह-चत्वारो वेलन्धरनागराजाः प्रज्ञप्तास्तद्यथागोस्तूपः शिवकः शङ्खो मनःशिलाकः ।। एएसि ण'मित्यादि, एतेषां भदन्त! चतुर्णा वेलन्धरनागराजानांकतिआवासपर्वताः प्रज्ञप्ताः?, भगवानाह-गौतम! एकैकस्य एकैकभावेन चत्वार आवासपर्वताः प्रज्ञप्तास्तद्यथा-गोस्तूप उदकभासः शङ्खो दकसीमः॥ _ 'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम ! अस्मिन् जम्बूद्वीपे यो मन्दरपर्वतस्तस्य पूर्वस्यां दिशि लवणसमुद्रं द्वाचत्वारिंशतं योजनसहनाण्यवगाह्यात्र गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपोनाम आवासपर्वतः प्रज्ञप्तः, सप्तदशयोजनशतानिएकविंशान्यर्द्धमुच्चैस्त्वेन, चत्वारियोजनशतानि त्रिंशदधिकानिक्रोशं चैकमुद्वेधेन, उच्छ्यापेक्षयाऽवगाहस्य चतुर्भागभावात्, मूले दशयोजनशतानि द्वाविंशत्युत्तराणि विष्कम्भतः, मध्ये सप्त योजनशतानि त्रयोविंशत्युत्तराणि, उपरिचत्वारियोजनशतानि चतुर्विशत्युत्तराणि, मूले त्रीणि योजनसहम्नाणि द्वे च योजनशते द्वात्रिंशदुत्तरे किञ्चिद्विशेषोने परिक्षेपेण, मध्ये द्वे योजनसहन द्वे च योजनशते चतुरशीते किञ्चिद्विशेषाधिकेपरिक्षेपेण, उपर्येकंयोजनसहस्रत्रीणियोजनशतानिएकचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, ततोमूले विस्तीर्णोमध्ये सङिप्त उपरितनुकः, अतएव गोपुच्छसंस्थानसंस्थितोगोपुच्छस्याप्येवमाकारत्वात्, सर्वात्मनाजाम्बूनदमयः, 'अच्छेजावपडिरूवे' इति प्राग्वत्। सेण मित्यादि, सः' गोस्तूपनामाआवासपर्वतएकयापद्मवरवेदिकया एकेन चवनषण्डेन “सर्वतः सर्वासुदिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः, द्वयोरपिचानयोर्वेदिकावनषण्डयोर्वर्णकः प्राग्वत् ॥ गोथूभस्सण मित्यादि, गोस्तूपस्यणमितिपूर्ववद् आवासपर्वतस्योपरिबहुसमरमणीयो भूमिभागःप्रज्ञप्तः, सेजहानामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वद्यावत्तत्रबहवो नागकुमारा देवा आसते शेरते यावद्विहरन्तीति । ___ 'तस्सण'मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, सच विजयदेवस्य प्रासादावतंसकसद्दशो वक्तव्यः, सचैवं-सार्द्धानि द्वाषष्टिर्योजनानि उच्चैस्त्वेन, सक्रशान्येकत्रिंशद् योजनान्यायामविष्कम्भाभ्यां, प्रासादवर्नमुल्लोचवर्णनं च प्राग्वत् । तस्य च प्रासादावतंसकस्यान्तर्बहुमध्यदेशभागे महत्येका सर्वरलमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यूतद्वयबाहल्या, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं, तम्बैन्द्रसामानिकादिदेवयोग्यैर्भद्रासनैः परिवृतमिति। _ 'सेकेणद्वेणं भंते !' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते गोस्तूप आवासपर्वतो गोस्तूप आवासपर्वतः ? इति, भगवानाह-गौतम ! गोस्तूपे आवासपर्वते क्षुल्लासु कुलिकासु वापीषु यावदिलपङ्किषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि गोस्तूपप्रभाणि गोस्तूपाकाराणि गोस्तूपवर्णानि गोस्तूपवर्णस्येवाभा-प्रतिभासोयेषांतानिगोस्तूपवर्णाभानि, ततस्तानि तदाकारत्वात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy