________________
प्रतिपत्तिः-१,
मणिभेदाः-पद्मरागादयस्तेऽपि खरबादरपृथिवी- कायिकत्वेन वेदितव्याः।
'तेसमासतो इत्यादि, ते बादरपृथिवीकायिकाः समासतः' सङक्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तका अपर्याप्तकाच, तत्र येऽपर्याप्तकास्ते स्वयोग्याः पर्याप्तीः साकल्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्टान् वर्णादीननुपगताः, तथाहि वर्मादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्युपदेष्टुं, किं कारणमिति-चेद्, उच्यते, इह शरीरादिपर्याप्तिषुपरिपूर्णासुसतीषु बादराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णासु, ते चापर्याप्ता उच्छ्वासपर्याप्तया अपर्याप्ता एव म्रियन्ते, ततो न स्पष्टो वर्णादिविभाग इत्यसंप्राप्ता इत्युक्तम्, अन्ये तु व्याचक्षते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच्च न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याप्तया संजातमिति।
तत्यण' मित्यादि, तत्र येतेपर्याप्तकाः-परिसमाप्तसमस्तस्वयोग्यपर्याप्तयस्तेवणदिशेनवर्णभेदविवक्षया एवं गन्धादेशेनरसादेशेन स्पशदिशेनसहस्राग्रशः-सहनसङ्ख्यया विधानानिभेदाः, तद्यथा-वर्णा कृष्णादिभेदात्पञ्च गन्धौ सुरभीतरभेदाद्दौ रसास्तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिंश्चवर्णादौ तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि-अमरकोकिल कजलादिषु तरतमभावात् कृष्णः कृष्णतरः कृष्णतम त्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नीलादिष्वपि० तथा गन्धरसस्पर्शेष्वपि, तथा परस्परंवर्णानां संयोगतो घूसरकर्बुरत्वादयोऽनेकसङ्घयाभेदाः, एवं गन्धादीनामपि गन्धादनः समायोगात्, ततो भवन्तिवर्णाद्यादेशैः सहनाप्रशोभेदाः
संखिजाई जोणिप्पमुहसयसहस्साइं“ति सङ्ख्येयानि योजानिमुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनि पृथिवीकायिकानां, सा पुनस्त्रिधासचित्ताऽचित्ता मिश्रा च, पुनरेकैका त्रिधा-शीता उष्णा शीतोष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेकविशिष्टवर्णादियुक्ताः सङ्ख्यातीता अपि स्वस्थाने व्यक्तिभेदेन योनिजातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्घयेयानि पृथ्वीकायिकानां योनिशतसहस्राणि भवन्ति, तानिच सूक्ष्मबादरगतसर्वसङ्ख्यया सप्त, 'पञ्जत्तगनिस्साए' इत्यादि, पर्यातकनिश्रयाऽपर्याप्तका व्युत्क्रामन्तिउत्पद्यन्ते, कियन्तः ? इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तन्निश्रया असङ्येयाः-सङ्ख्यातीता अपर्याप्तकाः।
“एएसिणं भंते ! जीवाण'मित्यादिना शरीरावगाहनादिद्वारकलापचिन्तां करोति, साच पूर्ववत्, तथा चाह-एवं जो चेव सुहुमपुढविकाइयाणं गमो सो चेव भाणियव्यो इति, 'नवर' मित्यादि, नवरमिदं नानात्वं लेश्याद्वारे चतम्रोलेश्या वक्तव्याः, तेजोलेश्याया अपि सम्भवात्, तथाहि-व्यन्तरादय ईशानान्ता देवा भवनविमानादावतिमूर्छयाऽऽत्मीयरत्नकुण्डलादा. वप्युत्पद्यन्ते, तेच तेजोलेश्यावन्तोऽपिभवन्ति, यल्लेश्यश्चम्रियते अग्रेऽपि तल्लेश्य एवोपजायते "जल्लेसे मरइ तल्लेसे उववज्जइ इति वचनात् ।
ततः कियत्कालमपर्याप्तावस्थायां तेजोलेश्यावन्तोऽप्यवाप्यन्ते इति चतस्रो वक्तव्याः, आहारोनियमात्षड्दिशि, बादराणां लोकमध्य एवोपपातभावात्, उपपातो देवेभ्योऽपि, बादरेषु तदुत्पादविधानात्, स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वाविंशतिवर्षसहनाणि, देवेभ्योऽप्युत्पादात् त्र्यागतयो, द्विगतयः पूर्ववत्, एतेऽपि च ‘परोत्ता' प्रत्येकशरीरिणोऽसङ्खयेयाः प्रज्ञप्ताः हे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org