SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० पंडुमत्तिया पणगमत्तिया, सेत्तं सण्हबायरपुढविकाइया | 119 11 ॥२ ॥ ॥३॥ जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/१६ ॥४॥ - से किं तं खरबायरपुढविक्कइया ?, २ अनेगविहा पन्नत्ता, तंजहापुढवीय सक्करा वालुया य उवले सिला य लोणूसे । तंबा य तय सीसय रुप्प सुवण्णे य वइरे य ॥ हरियाले हिंगुलए मनोसिला सासगंजण पवाले । अब्भपडलब्भवालुय बायरकाये मणिविहाणा ।। गोमेज य रुय अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले भुयमोयगइंदनीले य ॥ चंदनगेरुयहंसे पुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकंते सूरकंते य ॥ जे यावणे तहप्पगारा ते समासतो दुविहा पन्नत्ता, तंजहा - पज्जत्तगा य अपजत्तगाय, तत्थणं जे ते अपजत्तगा ते णं असंपन्ना, तत्थ णं जे ते पञ्जत्तगा एएसिणं वण्णादेसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखिज्जाई जोणिप्पमुहसयसहस्साइं पज्जत्तगनिस्साए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ नियमा असंखेज्जा" इति, अस्य व्याख्या - कृष्णमृत्तिकारूपा, एवं नीललोहितहारिद्रशुक्लभेदा अपि वाच्याः, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदात्मका जीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, 'पणगमत्तिया' इति नद्यादिपूरप्लाविते देशे नद्यादि पूरेऽपगते यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् । 'से किं त' मित्यादि । अथ के ते खरबादरपृथिवीकायिकाः ?, सूरिराह- खरबादरपृथिवीकायिकानैिकविघाःप्रज्ञप्ताः, चत्वारिंशद्भेदा मुख्यतः प्रज्ञप्ता इत्यर्थः, तानेव चत्वारिंशन्द्रेदानाह, तंजहा - 'पुढवी' त्यादिगाथाचतुष्टयम् । पृथिवीति 'भामा सत्यभामावत्' शुद्धपृथिवी नदीतटभित्यादिरूपा १, चशब्द उत्तरापेक्षया समुच्चये, शर्करा - लघूपलशकलरूपा २, वालुका-सिकता ३, उपलः - टङ्काद्युपकरणपरिकर्मणापाषाणः ४, शिलाघटनयोग्या देवकुलपीठाद्युपयोगी महान् पाषाणविशेषः ५, लवणंसामुद्रादि ६, ऊषो यद्वशादूषरं क्षेत्रम् ७, अयस्ताम्रत्रपुसीसकरूप्यसुवर्णानि - प्रतीतानि १३, वज्रो - हीरकः १४, हरितालहिङ्गुलमनःशिलाः प्रतीताः १७, सासगं - पारदः १८, अञ्जनं सौवीराञ्जनादि १९, प्रवाल- विद्रुमः २०, अभ्रपटलं - प्रसिद्धम् २१, अभ्रवालुका - अभ्रपटमिश्रा वालुका २२, ‘बायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वात् मणिविधानानि च-- मणिभेदाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति- 'गोमेजए य' इत्यादि, गोमेजकः २६, 'चः' समुच्चये, रुचकः २४ अङ्कः २५ स्फटिकः २६ ‘चः’ पूर्ववत्, लोहिताक्षः २७ मरकतः २८ मसारगल्लः २९ भुजमोचकः ३० इन्द्रनीलश्च ३१ चन्दन : ३२ गैरिकः ३३ हंसगर्भः ३४ पुलकः ३५ सौगन्धिकश्च ३६ चन्द्रप्रभः ३७ वैडूर्य ३८ जलकान्तः ३९ सूर्यकान्तश्च ४० । तदेवमाद्यया गाथया पृथिव्यादयश्चतुर्दश भेदा उक्ताः द्वितीयगाथयाऽष्टौ हरितालादयः तृतीयगाथया गोमेज्जकादयो दश तुर्यगाथयाऽष्टाविति, सर्वसङ्ख्यया चत्वारिंशत्, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy