________________
३२०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८९ गम्यते सीताया महानद्या बहुमध्यदेशभागे अनोत्तरकुरुनामा ह्रदः प्रज्ञप्तः, यथैव प्राग्नीलवतो हृदस्यायाम- विष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूमहापद्माष्टशतपद्मपरिवारपद्मशेष- पद्मपरिक्षेपत्रय व्तव्यतोक्ता तथैवेहाप्यन्यूनातिरिक्ता वक्तव्या । नामकरमंपिपृच्छिषुरिदमाह
“से केणटेणं भंते !' इत्यादि प्राग्वन्नवरमत्पलादीनि यस्माद् ‘उत्तरकुरुहूदप्रभाणि' उत्तरकुरुहूदाकाराणि तेन तानि तदाकारयोगात् उत्तरकुरुनामा च तत्र देवः परिवप्सति तेन तद्योगाद्ह्रदोऽप्युत्तरकुरु, न चैवमितरेतराश्रयदोषप्रसङ्गः, उभयेषामपिनाम्नामनादिकालं तथा प्रवृत्तेः, एवमन्यत्रापि निर्दोषदा भावनीया, उत्तरकुरुनामा च तत्र देवः परिवसति, तद्वक्तव्यता चनीलवनागकुमारवद्वक्तव्या, ततोऽप्यसावुत्तरकुरुरिति, राजधानीवक्तव्यता काञ्चनकपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् ।। चन्द्रहदवक्तव्यतामाह
'कहिणं भंते!' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम! उत्तरकुरुहूदस्य दाक्षिणात्याघरमान्तादर्वाग् दक्षिणस्यां दिशिअष्टौचतुस्त्रिंशानियोजनशतानिचतुरश्चसप्तभागान्योजनस्यावाधया कृतवेति शेषःशीताया महानद्या बहुमध्यदेशभागे अत्र' अस्मिन्नवकाशे उत्तरकुरुषु कुरुषु चन्द्रहदो नाम हदः प्रज्ञप्तः, अस्यापि नीलवदह्रदस्येवायामविष्कम्भोद्वेधपद्मवरवेदिकावनषण्डत्रिसोपानप्रतिरूपकतोरणमूलभूतमहापद्माष्टशतपद्मपरिवारपद्मशेषपद्मपिक्षेपत्रयवक्तव्यता वक्तव्या, नामान्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि चन्द्रगदप्रमाणि' चन्द्रहदाकाराणि चन्द्रवर्णानि चन्द्रनामा च देवस्तत्र परिवसति तस्माचन्द्रहदामोत्पलादियोगाच्चन्द्रदेवस्वामिकत्वाच्च चन्द्रहद इति, चन्द्राराजधानीवक्तव्यता काञ्चनपर्वतवक्तव्यता च राजधानीपर्यवसाना प्राग्वत् साम्प्रतमैरावतहदवक्तव्यतामाह
__ 'कहिणं भंते' इत्यादि प्रश्नसूत्रपाठसिद्धं, निर्वचनमाह-गौतम! चन्द्रवदस्य दाक्षिणात्याचरमान्तादग्दक्षिणस्यां दिशिअष्टौचतुस्त्रिंशानियोजनशतानिचतुरश्चसप्तभागान्योजनस्याबाधया कृत्वेति शेषः सीताया महानद्या बहुमध्यदेशभागे 'अत्र' एतस्मिन्नवकाशे एरावतह्रदो नाम द्रदः प्रज्ञप्तः,अस्यापिनीलवन्नाम्नो हृदस्येवायामविष्कम्भादिवक्तव्यतापरिक्षेपपर्यवसाना वक्तव्या, अन्वर्थसूत्रमपि तथैव, नवरं यस्मादुत्पलादीनि ऐरावतहदप्रभाणि, ऐरावतोनाम हस्तीतद्वनि च ऐरावतश्च नामा तत्र देवः परिवसति तेन ऐरावतहद इति, ऐरावताराजधानी विजयराजधानीवत् काञ्चनकपर्वतवक्तव्यतापर्यवसाना तथैव ।।अधुना माल्यवन्नामहदवक्तव्यतामाह
'कहिणंभंते' इत्यादि, सुगम, भगवानाह-गौतम! ऐरावतहदस्यदाक्षिणात्याच्चरमान्तादर्वाग् दक्षिणस्यां दिशि अष्टौ चतुस्त्रिंशानियोजनशतानि चतुरश्च सप्तभागान् योजनस्य अबाधया कृत्वेति शेषः सीताया महानद्या बहुमध्यदेशभागे 'अत्र एतस्मिन्नवकाशे उत्तरकुरुषुमाल्यवन्नामा इदः प्रज्ञप्तः, सच नीलवदहदवदायामविष्कम्भादिना तावद्वक्तव्योयावत्पद्मवक्तव्यतापरिसमाप्ति, नामन्वर्थसूत्रमपितथैव यस्मादुत्पलादीनि 'माल्यवदहदप्रभाणि' माल्यवदाइदाकाराणि, माल्यवन्नामा वक्षस्कारपर्वतस्तद्वनि-तद्वर्णाभानि माल्यवन्नामा च तत्रदेवः परिवसति तेन माल्वददइति, माल्वतीराजधानी विजयारजधानीवद् वक्तव्या काञ्चनकपर्वतवक्तव्यताऽवसाना प्राग्वत्।
सम्प्रति जम्बूवृक्षवक्तव्यतामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org