SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० /१८७ से णं पउमे अन्नेहिं तिहिं पउमवरपरिक्खेवेहिं सव्वतो समंता सपरिक्खित्ते, तंजहा- अभितरेणं मज्झिमेणं बाहिरएणं, अब्भितरएणं परमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ प०, मज्झिमए णं पउमपरिक्खेवे चत्तालीसं पउमसयसाहसीओ पं० बाहिरए णं पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णत्ताओ, एवामेव सपुव्वावरेणं एगा पउमकोडी वीसंच पउमसतसहस्सा भवतीति मक्खाया। से केणट्टेणं भंते! एवं वृच्छति - नीलवंतद्दहे दहे ?, गोयमा ! नीलवंतद्दहे णं तत्थ तत्थ जाई उप्पलाई जाव सतहस्सपत्ताइं नीलवंतप्पभाति नीलवंतद्दहकुमारे ५० सो चेव गमो जाव नीलवंतदहे २ ॥ वृ. 'कहि णं भंते!' इत्यादि, का भदन्त ! उत्तरकुरुषु कुरुषुनीलवदहदो नाम ह्रदः प्रज्ञप्तः ?, भगवानाह - गौतम ! यमकपर्वतयोर्दक्षिणाञ्च्चरमान्तादर्वाग् दक्षिणाभिमुखमष्टौ 'चतुस्त्रिंशानि ' चतुस्त्रिंशदधिकानि योजनशतानि चतुरश्च सप्तभागान् योजनस्याबाधया कृत्वेति गम्यते अपान्तराले मुक्त्वेति भावः, अत्रान्तरे शीताया महानद्या बहुमध्यदेशभागे 'एत्थ णं'ति एतस्मिन्नवकाशे उत्तरकुरुषु कुरुषु नीलवदहदो नाम हदः प्रज्ञप्तः, स च किंविशिष्टः ? इत्याह उत्तरदक्षिणायतः प्राचीनापाचीनविस्तीर्ण, एकं योजनसहस्रमायामेन, पञ्च योजनशतानि विष्कम्भतः, दश योजनान्युद्वेधेन-उण्डत्वेन, 'अच्छ: ' स्फटिकवद्बहिर्निर्मलप्रदेशः 'श्लक्ष्णः' श्लक्ष्णपुलनिर्मापितबहिप्रदेशः, तता रजतमयं रूप्यमयं कूलं यस्यासौ रजतमयकूलः, इत्यादि विशेषणकदम्बकं जगत्युपरिवाप्यादिवत्तावद्वक्तव्यं यावदिदं पर्यन्तपदं 'पडिहत्यभमंतमच्छकच्छपअनेगसउणमिहुणपरियरिए' इति । 'उभओपासे' इत्यादि, सच नीलवन्नामा हदः शीताया महानद्या उभयोः पार्श्वयोर्बहिर्विनिर्गतः, स तथाभूतः सन्नुभयोः पार्श्वयोर्द्वाभ्यां पद्मवरवेदिकाभ्याम्, एकस्मिन् पार्श्वे एकया पद्मवरवेदिकया द्वितीये पार्श्वे द्वितीयया पद्मवरवेदिकयेत्यर्थः, एवं द्वाभ्यां वनषण्डाभ्यां 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्तः पद्मवरवेदिकावनषण्डवर्णकश्च प्राग्वत् । 'नीलवंतदहस्स णं दहस्स तत्थ तत्थे' त्यादि, नीलवदहदस्य णमिति वाक्यालङ्कारे तत्र तत्र देश तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि त्रिसोपानप्रतिरूपकाणि- प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि वर्णकस्तेषां प्राग्वद्वक्तव्यः ॥ 'तेसि ण' मित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञसं, 'तेणं तोरणा' इत्यादि तोरणवर्णनं पूर्ववत्तावद्वक्तव्यं यावत् 'बहवो सयसहस्सपत्तहत्यगा' इति पदम् । 'तस्स ण' मित्यादि, तस्य नीलवन्नाम्नो ह्रदस्य बहुमध्यदेशभागे, अत्र महदेकं पद्मं प्रज्ञप्तं योजनमायामतो विष्कम्भतश्चार्द्धयोजनं बाहल्येन दश योजनानि 'उद्वेधेन' उण्डत्वेन जलपर्यन्ताद् द्वौ क्रशी उच्छ्रितं सर्वाग्रेण सातिरेकाणि दश योजनशतानि प्रज्ञप्तानि । 'तस्स ण' मित्यादि, तस्य पद्मस्य 'अयं' वक्ष्यमाणः 'एतद्रूपः अनन्तरमेव वक्ष्यमाणस्वरूएः ‘वर्णादासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वज्रमयं मूलं रिष्ठरत्नमयः कन्दो वैडूर्यरत्नमयो नालः, वैडूर्यरत्नमयानि बाह्यपत्राणि, जाम्बूनदमयान्यभ्यन्तरपत्राणि, तपनीयमयानि केसराणि, कनकमयी पुष्करकर्णिका, नानामणिमयी पुष्करस्थिबुका | 'सा ण कण्णिया अद्ध' मित्यादि, सा कर्णिकाऽर्द्धयोजनमायामविष्कम्भाभ्यां क्रोशमेकं बाहल्यतः सर्वात्मना कनकमयी अच्छा For Private & Personal Use Only www.jainelibrary.org ३१६ Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy