________________
३१७
प्रतिपत्तिः -३, दीव० यावप्रतिरूपा, यावत्करणात् ‘सण्हा लण्हा धट्टा मट्ठा नीरया' इत्यादि परिग्रहः ।
"तीसेणं कण्णियाए इत्यादि, तस्याः कर्णिकाया उपरिबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तवर्णनंच से जहानामए आलिंगपुक्खरेइवे' त्यादिना ग्रन्थेन विजयराजधान्या उपकारिकालयनस्येव तावद्वक्तव्यंयावन्मणीनां स्पर्शवक्तव्यतापरिसपमाप्ति । तस्सण मित्यादि, तस्यबहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं क्रोशमायामतोऽर्द्धक्रशं विष्कम्भतो देशोनंक्रोशमूर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टत्यादि तद्वर्णनं विजयराजधानीगतसुधर्म-सभाया इव तावद्वक्तव्यं यावदिदं सूत्रं 'दिव्वतुडिय०' इति, तदनन्तरं सूत्रमाह-- सव्वरयणामए इत्यादि सर्वात्मना रत्नमयम् अच्छं यावत्प्रतिरूपं, यावत्करणात् सण्ह लण्हे घटे मढे' इत्यादिपरिग्रहः । तस्स णमित्यादि तस्य भवनस्य 'त्रिदिशि तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यामुत्तरस्यां दक्षिणस्याम् ।
'तेगंदारा' इत्यादि, तानिद्वाराणि पञ्चधनुःशतानि ऊर्द्धमुच्चैस्वेन, अर्द्धतृतीयानिधनुः शतानि विष्कम्भेन, तावदेव-अर्द्धतृतीयान्येव धनुःशतानीति भावः प्रवेशेन । 'सेयावरकणगथूभिया' इत्यादि द्वारवर्णनं विजयद्वारस्येव तावदविशेषेणावसातव्यं यावत् 'वनमालाओ' इति वनमालावक्तव्यतापरिसमाप्ति ॥'तस्स णमित्यादि, तस्य भवनस्य उल्लोचोऽन्तर्बहुसमरमणीयो भूमिभागो मणीनां वर्णगन्धरसस्पर्शवर्णनं प्राग्वत्।
'तस्स ण मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेमणिपीठका प्रज्ञप्ता, पञ्चधनुःशतान्यायामविष्कम्भाभ्यांअर्द्धतृतीयानिधनुःशतानि बाहल्येन सर्वात्मनामणिमयी अच्छा यावयतिरूपा इति प्राग्वत् ॥'तीसे णमित्यादि, तस्या मणिपीठिकाया उपर्यत्र महदेकं देवशयनीयं प्रज्ञप्तं, शयनीयवर्णकः प्राग्वत् । 'तस्सण'मित्यादि, तस्य भवनस्य उपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि पूर्ववत्तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति।
'सेण'मित्यादि, तत्पद्ममन्येनाष्टशतेन पद्मानां तदोच्चत्वप्रमाणमात्राणां-तस्य मूलपद्मप्रमामस्यार्द्ध तदर्द्ध तच्च तद् उच्चत्वप्रमाणं च तदोच्चत्वप्रमाणं तत् मात्रा येषां ते तानि तथा तेषां ‘सर्वतः' सर्वासु दिक्षु समन्ततः' सामस्त्येन संपरिक्षिप्तं । तदोच्चत्वप्रमाणमेव तेषां भावयति-'तेणंपउमा' इत्यादि, तानिपद्मानि प्रत्येकमर्द्धयोजनमायामविष्कम्भाभ्यांक्रोशमेकं बाहल्येन दशयोजनशतानि उद्वेयेनक्रोशमेकंजलपर्यन्तादुच्छ्रितं सातिरेकाणिदश योजनशतानि सर्वाग्रेण ॥ 'तेसि णमित्यादि, तेषां पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञप्त, वज्रमयानि मूलानि रिष्ठरलमयाः कन्दा वैडूर्यरत्नमया नालाः तपनीयमयानि बाह्यपत्राणि जाम्बूनदमयानि अभ्यन्तरपत्राणि तपनीयमयानि केशराणिकनकमव्यः कर्णिकः नानामणिमयाः पुष्करस्थिभुगाः ___ 'ताओणंकण्णियाओ' इत्यादि, ताः कर्णिकाःक्रोशमायामविष्कम्भाभ्यामर्द्धक्रोशंबाहल्येन सर्वात्मना कनकमय्यः ‘अच्छाओजावपडिरूवाओं इतिप्राग्वत्।। तासिणंकण्णियाण'मित्यादि, तासां कर्णिकानामुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य वर्णकः पूर्ववत्तावद्वक्तव्यो यावन्मणीनांस्पर्श । तस्सण मित्यादि, तस्य मूलभूतपद्मस्य 'उपरोत्तरेण' अपरोत्तरस्यां, एवमुत्तरस्यामुत्तरपूर्वस्यां, सर्वसङ्कलनया तिसृषु दिक्षु अत्र नीलवतो नागकुमारेन्द्रस्य नागकुमारराजस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि पद्मसहस्राणि प्रज्ञप्तानि ।
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org