________________
३१४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८६
वनखण्डवर्णकश्च जगत्युपरिपद्मवरवेदिकावनषण्डवर्णकवद् वक्तव्यः ।
'सिणं जमगपब्वयाण' मित्यादि, यमकपर्वतयोरुपरि प्रत्येकं बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, भूमिभागवर्णनं 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादि प्राग्वत्तावद्वक्तव्यं यावद् 'वाणमंतरा देवाय देवीओ यआ सयंति सयंति जाव पच्चणुभवमाणा विहरंति' । 'तेसिण' मित्यादि, तयोर्बहुसमरमणीययोर्भूमिभागयोर्बहुमध्यदेशभागे प्रत्येकं प्रत्येकं प्रासादावतंसकः प्रज्ञप्तः, तौ च प्रासादावतंसकौ द्वाषष्टिर्योजनान्यर्द्धयोजनं चोर्द्धमुच्चैस्त्वेन, एकत्रिंशद् योजनानि क्रोशं चैकं विष्कम्भेन, 'अब्ग्गयमूसियपहसिया इवेत्यादि यावत् पडिरूवा' इति प्रासादावतंसकवर्णनमुल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं विजयदुष्यवर्णनमङ्कुशवर्णनं दाभवर्णनं च निरवशेषं प्राग्वद्वक्तव्यं, नवरमत्र मणिपीठिकायाः प्रमाणमायामविष्कम्याभ्यां द्वे योजने, बाहल्येनैकं योजनं, शेषं तथैव ।
'तेसि णं सिंहासणाण' मित्यादि, तयोः सिंहासनयोः प्रत्येकम् 'अवरुत्तरेण' ति अपरत्तरस्यां वायव्यामित्यर्थ उत्तरस्यामुत्तरपूर्वस्यां च दिशि अ एतासु तिसृषु दिक्षु 'यमकयोः' यमकनाम्रोर्यमकपर्वतस्वामिनोर्देवयोः प्रत्येकं प्रत्येकं चतुर्णां सामानिकसहस्राणां योग्यानि चत्वारि भद्रासन सहस्राणि प्रज्ञप्तानि, एवमनेन क्रमेण सिंहासनपरिवारो वक्तव्यो यथा प्राग्विजयदेवस्य 'तेसि ण 'मित्यादि, तयोः प्रासादावतंसकयोः प्रत्येकमुपर्यष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि इत्याद्यपि प्राग्वत्तावद्वक्तव्यं यावत् 'सयसहस्सपत्तगा' इतिपदम् ।
सम्प्रति नामनिबन्धनं पिपृच्छिषुरिदमाह - अथ 'केनार्थेन' केन कारणेन एवमुच्यतेयमकपर्वती यमकपर्वती ? इति, भगवानाह - गौतम ! यमकपर्वतयोः णमिति वाक्यालङ्कारे क्षुल्लकक्षुल्लिकासु वापीपुष्करिणीषु यावद्विबलहङ्किषु बहूनि यावत्सहस्रपत्राणि 'यमकप्रभाणि' यमका नाम - शकुनिविशेषास्तत्प्रभानि तदाकाराणि, एतदेव व्याचष्टे - यमकवर्णाभानि यमकवर्णसदृशवर्णानीत्यर्थः । 'यमकौच' यमकनामानौ च तत्र - तयोर्यमकपर्वतयोः स्वामित्वेन द्वौ देवी महर्द्धिको यावन्महाभागौ पल्योपमस्थितिकौ परिवसतः, तौ च तत्र प्रत्येकं चतुर्णां सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां तिसृणामभयन्तरमध्यमबाह्यरूपाणां यथासङ्घयमष्दश-द्वादशदेवसहस्रसङ्ख्याकानां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामा - त्मरक्षदेवसहस्राणां 'जमगपव्वयाणं जमगाण य रायहाणीण' मिति स्वस्य स्वस्य यमकपर्वतस्य स्वस्य स्वस्य यमिकाभिधाया राजधान्या अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनांच स्वस्वयमिकाभिधराजधानीवास्तव्यानामाधिपत्यं यावद्विहरतः, यावत्करणात् 'पोरेवच्चं सामित्तं भट्टित्त' मित्यादिपरिग्रहः, ततो यमकाकारयमकवर्णोत्पलादियोगाद्यमकाभिधदेवस्वामिकत्वाच्च तौ यमकपर्वतावित्युच्येते, तथा चाह ।
'से एणद्वेण 'मित्यादि ॥ सम्प्रति यमिकाभिधराजधानीस्थानं पृच्छति- 'कहि णं भंते' इत्यादि, का भदन्त ! यमकयोर्देवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञप्तौ ?, भगवानाह - गौतम! यमकपर्वतयोरुत्तरतोऽन्यस्मिन्नसङ्घयेयतमे जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगायात्रान्तरे यमकयोर्देवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञप्ते, द्वे चाविशेषेण विजयराजधानीसशे वक्तव्ये । सम्प्रति हदवक्तव्यतामभिधित्सुराह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org