________________
३१२
ते मनुजा प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
'उत्तरकुराए णं भंते' इत्यादि, उत्तरकुरुषु कुरुषु भदन्त ! 'कतिविधाः' जातिभेदेन कति प्रकारा मनुष्याः 'अनुसजन्ति ?' सन्तानेनानुवर्त्तन्ते, भगवानाह - गौतम ! षड्विधा मनुजा अनुसजन्ति, तद्यथा- पद्मगन्धा इत्यादि, जातिवाचका इमे शब्दाः । अत्र तिनेयजनानुग्रहायोत्तरकुरुविषयसूत्रसङ्कलनार्थं सङ्ग्रहणिगाथात्रयमाह
|| 9 ||
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८५
उसुजीवाधणुपट्टे भूमी गुम्मा य हेरुउद्दाला । तिलगलयावणराई रुक्खा मणुया य आहारे ॥ हा गामा य असी हिरण्ण राया दास माया य । आहोरिए य मित्ते विवाहमहनट्टसगडा य ॥ आसा गाव सीहा साली खाणू य गड्डुदंसाही । गजुद्धरोगावइ उवट्टणा य अणुसज्जया चेव ॥
अस्य व्याख्या - प्रथममुत्तरकुरुविषयमिषुजीबाधनुःपृष्ठप्रतिपादकं सूत्रं, तदनन्तरं भूमिरिति भूमिविषयं सूत्रं ततो 'गुम्मा' इति गुल्मविषयं, तदनन्तरं हेरुतालवनविषयं ततः 'उद्दाला' इति उद्दालादिविषयं तदनन्तरं 'तिलग' इति तिलकपदेपलक्षितं, ततो लताविषयं, तदनन्तरं वनराजीविषयं ततः 'रुक्खा' इति दशविधकल्पपादपविषया दश सूत्रदण्डकाः, 'मणुया य' इति
॥२॥
॥३॥
यो मनुष्यविषयाः सूत्रदण्डकास्तद्यथा - आद्यः पुरुषविषयो द्वितीयः स्त्रीविषयस्तृतीयः समान्यत उभयविषय इति, ततः ‘आहारे' इति आहारविषयः, तदनन्तरं 'गेहा' इति गृहविषयौ द्वौ दण्डकी, आधो गृहाकारवृक्षाभिधायी अपरो गेहाद्यभावविषय इति, ततः 'गामा' इति ग्रामाद्यभावः, तदनन्तरमसीति अस्याद्यभावविषयः, ततो हिरण्यादिविधवः । तदनन्तरं राजाद्यभावविषयः, ततो दासाद्यभावविषयः, ततो मात्रादिविषयः, तदनन्तर- मरिवैरिप्रभृतिप्रतिषेधविषयः, तदनन्तरं मित्राद्यभावविषयः, तदनन्तरं विवाहपदोपलक्षित- स्तव्प्रतिषेधविषयः, तदनन्तरं महप्रतिषेधविषयः, ततो नृत्यपदोपलक्षितः प्रेक्षाप्रतिषेधविषयः, तद० शकटादिप्रतिषेधविषयः, ततोऽश्वादिपरिभोगप्रतिषेधविषयः, तद० स्त्रीगव्यादिप- रिभोगप्रतिषेदविषयः ।
- ततः सिंहादिश्वापदविषयः, तदनन्तरं शाल्याद्युपभोगप्रतिषेधविषयः, ततः स्थाण्वादिप्रति षेधविषयः, तदनन्तरं गर्त्तादिप्रतिषेधविषयः, ततो दंशाद्यभावविषयः, ततोऽह्यादिविषयः, तदनन्तरं 'गह' इति ग्रहदण्डादिविषयः, ततः 'जुद्ध' इति युद्धपदोपलक्षितो डिम्बादिप्रतिषेधविषयः सूत्रदण्डकः, ततो रोग इति रोगपदोपलक्षितो दुर्भूतादिप्रतिषेधविषयः, तदनन्तरं स्थितसूत्रं ततोऽनुषजनसूत्रमिति । सम्प्रत्युत्तरकुरुभावियमकपर्वतवक्तव्यतामाह-: यमक - पर्वताधिकार :
मू. (१८६) कहि णं भंते! उत्तरकुराए कुराए जमगा नामं दुवे पव्वता पत्रत्ता ? गोयमा नीलवंतस्स वासधरपव्वयस्स दाहिणेणं अट्ठचोत्तीसे जोयणसते चत्तारि य सत्तभागे जोयणस्स अबाधाए सीताए महानईए (पुव्वपच्छिमेणं) उभओ कूले ।
इत्थ णं उत्तर कुराए जमगा नामं दुवे पव्वता पन्नत्ता एगमेगं जोयणसहस्सं उडुं उच्चत्तेणं अड्डाइजाइं जोयणसताणि उव्वेहेणं मूले एगमेगं जोयणसहस्सं जोयणसहस्सं आयामविक्खंभेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org