SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३, दीव० ३११ मायुद्धानीतिवा, महायुद्ध-परस्परंमार्यमाणमारकतयायुद्धं, महासङ्ग्रामाइतिवा, महासन्नाहा इति वा, महासङ्ग्रामश्चेटिककोणिकवत, महासन्नाहो-बृहत्पुरुषाणामपि बहूनां यः सन्नाहः, महापुरुषनिपतनानीतिवा, प्रतीतं, महाशस्त्रनिपतनानीतिवा,महाशस्त्रनिपतनं-यन्त्रागबाणादीनां दिव्याणां प्रक्षेपणं, नागबाणादयो हि बाणा महाशस्त्राणि, तेषामद्भुतविचित्रशक्तिकत्वात्, तताहि नागबाणाधनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तोजाज्वल्यमानासह्योल्कादण्डरूपास्तः परशरीरे सक्रान्ता नागमूर्तीभूय पाशत्वमुपगच्छन्ति, तामसबाणाश्चपर्यन्ते सकलसङ्ग्रामभूमिव्यापिमहान्धतमसरूपतया परिणमन्ते, उक्तञ्च॥१॥ "चित्रं श्रेणिक ! ते बाणा, भवन्ति धनुराश्रिताः । उल्कारूपाश्चगच्छन्तः,शरीरे नागमूर्तयः॥ ॥२॥ क्षणं बाणाः क्षणं दण्डाः, क्षणं पाशत्वमागताः । आकरा ह्यभेदास्ते, यथाचिन्तितमूर्तयः॥ इत्यादि । भगवानाह-नायमर्थः समर्थो, व्यपगतडिम्बडमरकलहबोलक्षारवैरास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् । अस्थिणं भंते' इत्यादि, सन्ति भन्दित ! उत्तरकुरुषु कुरुषुदुर्भूतानीति वा, दुर्भूतंअशिवं, कुलरोगा इति वा मण्डलरोगा इति वा शिरोवेदनेति वा अक्षिवेदनेति वा कर्णवेदनेति वा नखवेदनेति वा दन्तवेदनेति वा काश इति वा श्वास इति वा सोष इति वा ज्वर इति वा दाह इति वा कच्छूरिति वा खसर इति वा कुछमिति वा अर्श इति वा अजीर्णमिति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्धग्रह इति वा कुमारग्रह इति वा नागग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वाघनुर्ग्रह इति वा उद्वेग इति वा एकाहिका इति वा द्वयाहिका इति वात्र्याहिका इतिवाचतुर्थका इति वाहृदयशूलानीतिवामस्तकशूलानीतिवापार्श्वशूलानीति वा कुक्षिशूलानीति वा योनिशूलानीति वा ग्रमामारिरिति वा नकरमारिरिति वा निगममारिरिति वा यावत्सन्निवेशमारिरिति वा, यावत्करणात् खेडकर्बटादिपरिग्रहः, मारिकृतप्राणिक्षय इति वाजनक्षय इति वा धनक्षय इति वा कुलक्षय इति वा व्यसनभूतमनार्यतेति वा ?, भगवानाह-नायमर्थ समर्थो, व्यपगतरोगातङ्कास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !। ___ 'तेसि णमित्यादि, तेषामुत्तरकुरुवास्तव्यानां भदन्त ! मनुष्याणां कियन्तं कालं स्थिति-अवस्थानं प्रज्ञप्ता?, भगवानाह--गौतम! जघन्येन देशोनानि त्रीणि पल्योपमानि, तत्र नज्ञायतेकियतादेशेनोनानि? तत आह–पल्योपमस्यासजयेयभागेनोनानि, उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि ।। तेणं भंते' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त ! मनुजाः कालमासे 'कालं' मरणं कृत्वा क गच्छन्ति?, एतदेव व्याचष्टे-कोत्पद्यन्ते? इति, भगवानाह-गौतम! ते मनुजाः षण्मासावशेषायुषः कृतपरभवायुर्बन्धाः स्वकाले युगलं प्रसूवते, प्रसूय एकोनपञ्चाशतं रात्रिन्दिवानितयुगलमनुपालयन्ति, अनुपाल्यकाशित्वा क्षुत्वा जृम्मयित्वा अक्लिष्टाः स्वशरीरी यक्लेशरहिताः 'अव्यथिताः' परेणानापादिदुःखाः 'अपरितापिताः' स्वतः परतो वाऽनुपजातकायमनःपरितापाः कालमासे कालं कृत्वा देवलोकेषु भवनपत्याद्याश्रयेषूत्पद्यन्ते, 'देवलोगपरिग्गहिया ण मिति देवलोको भवनपत्याद्याश्रयरूपस्तथाक्षेत्रस्वाभाव्यास्तद्याव्यायुर्बन्धनेन परिगृहीतोयैस्ते देवलोकपरिगृहीताः, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, णमिति वाक्यालङ्कारे, ___www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy