SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८५ वा, ग्रहगर्जितानि - ग्रहचारहेतुकानि गर्जितानि, इमानि स्वरूपतोऽपि प्तिषेध्यानि, ग्रहयुद्धानीति वा, ग्रहयुद्धं नाम यदेको ग्रहोऽन्यस्य ग्रहस्य मध्येन याति, ग्रहसङ्घाटका इति वा, ग्रहसङ्घाटको ना ग्रहयुग्मं ग्रहापसव्यानीति वा अभ्राणीति वा, अभ्राणि सामान्याकारेण प्रतीतानि, अभ्रवृक्षा इति वा, अभ्रवृक्षा-वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इति वा सन्ध्याकाल नीलाद्यभ्रपरिणतिरूपा प्रतीतैव गन्धर्वनगराणि - सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभः परिणतपुद्गलराशरूपाणि, एतान्यपि तत्र स्वरूपतोऽपि न भवन्ति, गर्जितानीति वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रतीताः, उल्कपाता इति वा, उल्कापाता - व्योम्रिसंमूर्च्छितज्वलननिपतनरूपाः, दिग्दाह इति वा दिग्दाहा-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः, निर्घाता इति वा, निर्घातो- विद्युप्रपातः, पांशुवृष्टय इति वा, पांशुवृष्टयो - धूलिवर्षाणि, यूपका इति वा, यूपकाः 'संझाछेयावरणो य' इत्यादिनाऽऽवश्यकग्रन्थेन प्रतिपत्तव्याः, यक्षदीप्तकानीति वा, यक्षदीप्तकानि नाम नभसिद्दश्यमानाग्निसहितः पिशाचः, धूमिकेति वा रूक्षा प्रविरला धूमाभा धूमिका, महिकेति वा, स्निग्धा घना घनत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेणोपलक्ष्यमाणा महिका, रजउद्घाता - रजस्वला दिशः । चन्द्रोपरागा इति वा सूर्योपरागा इति वा, चन्द्रोपरागः--चन्द्रग्रहणं सूर्योपरागः - सूर्यग्रहणं, इह गर्जितविद्युदुल्कादिग्दाहनिर्घातपांशुवृष्टियूपकयक्षदीप्तकधूमिकामहिकारजउद्घाताः स्वरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रहणे त्वनर्थोपनिपातहेतुतया स्वरूपतस्तयोः प्रतिषेद्धुमशक्यत्वात्, जम्बूद्वीपगतौ हि चन्द्रौ सूर्यौ वा तव्प्रकाशयतः, एकस्य चन्द्रस्य ग्रहणे सकलमनुष्यलोकवर्त्तिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे सकलमनुष्यलोकवर्त्तिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि स्वरूपतश्चन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा, चन्द्रसूर्यपरिवेषाश्चन्द्रादित्ययोः परितो वलयाकारपरिणतिरूपाः प्रतीता एव, प्रतिचन्द्रा इत वा प्रतिसूर्या इति वा, प्रतिचन्द्र - उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं द्वितीय- सूर्य प्रतिसूर्य, इन्द्रधनुरिति वा उदकसत्स्य इति वा, इन्द्रधनुः - प्रतीतं, तस्यैव खण्डमुदकमत्स्यः । कपिहसितानीति वा, कपिहसितानि - अकस्मान्नभसि ज्वलद्भीमशब्दरूपाणि, अमोधा इति वा, अमोधा :- सूर्यबिम्बस्याधः कदाचिदुपलभ्यमानशकटोद्धिसंस्थिता श्यामादिरेखा, एते चन्द्रपरिवेषादयः स्वरूपतोऽपि प्रतिषेध्याः, प्राचीनवाता इति वा अपाचीनवाता इति वा यावत् शुद्धवाता इति वा, यावत्करणाद्दक्षिणवातादिपरिग्रहः, एतेऽ सुखहेतवो विकृतरूपाः प्रतिषेध्याः नतु सामान्येन, पूर्वादिवातस्य तत्रापि सम्भवात्, ग्रामदाहा इति वा नरकदाहा इति यावत्संनिवेशदाहा इति, यावत्करणान्निगमदाहखेटदाहादिपरिग्रहः, दाहकृतश्च प्राणक्षय इति वा भूतक्षय इति वा कुलक्षय इति वा, एते स्वरूपतोऽपि प्रतिषेध्याः, तथा चाह भगवान् गौतम ! नायमर्थः समर्थः, केषाञ्चिदनर्थहेतुतया केषाञ्चित्स्वरूपतश्च तत्र तेषामसम्भवात् । 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु डिम्बानीति वा, डिम्बानिस्वेदोशोत्था विप्लवाः, डमराणीति वा, डमराणि - परराजकृता उपद्रवाः, कलहा इति वा, कलहायुद्धानि, बोला इति वा, बोल - आर्त्तानां बहूनां कलकलपूर्वको मेलापकः, क्षार इति वा, क्षारः - परस्परं मात्सर्य, वैराणीति वा, वैरं परस्परमसहनतया हिंस्यहिंसक भावाध्यवसायः, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy