________________
३०९
प्रतिपत्तिः - ३, दीव०
'अस्थिणंभंते' इत्यादि, सन्ति भदन्त! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इतिवा महिषा इति वा खराइति वागोटका इतिवा?, इह जात्याआशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा?, भगवानाहहन्त ! सन्ति, न पुनस्तेषां मनुजानां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति । अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः-स्त्रीगव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीघ्रमागच्छन्ति ।
'अस्थिर्णभंते इत्यादि, सन्ति भदन्त! उतरकुरुषु कुरुषु सिंहा इति वा, सिंहः-पञ्चाननः, व्याघ्रा इति वा, व्याघ्रः-शार्दूलः, वृका इति वा, द्वीपिका इति वा द्वीपिका:-चित्रकाः, अक्षा इति वा,परस्सराइतिवा, परो-गण्डः,श्रगालाइति वा, बिडाला इतिवा, शुनका इतिवा, कालशुनका इतिवा, कोकन्तिका इति वा, कोकन्तिकालुकडिकाः, शशका इति वा, चिल्लला इति वा, चिल्लल -आरण्यकः पशुविशेषः ?, भगवानाह-हन्त ! सन्ति, न पुनस्ते परस्परस्या तेषां वा मनुजानां काञ्चिदाबाधां वा प्रवाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन्! । 'अस्थिणंभंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुषुशालय इति वा व्रीहय इति वा गोधूमा इति वा यवा इति वा तिला इति वा इक्षव इति वा?, हन्त ! सन्ति न पुनस्तेषां मनुष्याणां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषुस्थाणुरिति वा कण्टक इति वा हीरमिति वा, हीरं-लघु कुत्सितं तृणं, शक्करेति वा, शर्करा- कर्करकः, तृणकचवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुचि-विगन्धंशरीरमलादि, पूतीति वा, पूति-कुथितंस्वस्वभावचलितंत्रिवासरवटकादिवत्, दुरभिगन्धमिति वा, दुरभिगन्धं मृतकलेवरादिवत्, अचोक्ष-अपवित्रमस्थ्यादिवत् ?, भगवानाह–नायमर्थः समर्थो, व्यपगतस्थाणुकण्टकहीरशर्करातृणकचवरपत्रकचवराशुचिपूतिदुरभिगन्धाचोक्षपरिवर्जिता उत्तरकुरवः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !॥
'अस्थि णं मंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु, गर्तेति वा, गर्ता-महती खड्डा, दरीति व, दरी-मूषिकादिकृता लध्वी खड्डा, घसीति वा, घसी-भूराजि, भृगुरिति वा, भृगुः-प्रपातस्थानं, विषममिति वा, विषमं-दुरारोहावरोहस्थानं, धूलिरिति वा पङ्क इति वा, धूलीपप्रतीतौ, चलणीति, वा, चलनी-चरममावस्पर्शी कर्दमः?,भगवानाह-नायमर्थः समर्थ, उत्तरकुरुषु कुरुषु बहुसमरमणीयो भूभागःप्रज्ञप्तो हे श्रमण! हे आयुष्मन् ! । 'अस्थिणं भंते!' इत्यादि, सन्ति भदन्त ! दंसा इति वा मसका इति वा ढङ्गुणा इति वा, कचित् पिशुगा इति वा इति पाठस्तत्र पिशुकाः-पंचटादयः, यूका इति वा लिक्षा इति वा?, भगवानाह-नायमथः समर्तो, व्यपगतोपद्रवाः खलु उत्तरकुरवःप्रज्ञप्ता हे श्रमण! हे आयुष्मन् !। ___'अस्थिणं भंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषुकुरुषुअहय इति वाअजगरा इति वा महोरगा इतिवा?, हन्त! सन्ति न पुनस्तेऽन्योऽन्यस्य तेषां वा मनुजानं काञ्चिदाबाधांव्याबाधां वाछविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते व्यालकगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !।
'अस्थिभंते' इत्यादि, सन्ति (भदन्त) ! उत्तरकुरुषु कुरुषु ग्रहदण्डा इति वा, दण्डाकारव्यवस्थिताग्रहा ग्रहदण्डाः तेचानर्थोपनिपातहेतुतयाप्रतिषेध्यान स्वरूपतः, एवं ग्रहमुशलानीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org