________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० /१८५
विशेषवन्तस्तेषां प्रेक्षा तूणइल्लप्रेक्षा, तुम्बवीणाप्रेक्षेति वा, तुम्बयुक्ता वीणा येषां ते तुम्बवीणाःतुम्बवीणावादकास्तेषां प्रेक्षा, 'कावपिच्छाइ वे' ति कावाः - कावडिवाहका तेषां प्रेक्षा, मागधप्रेक्षेति वा, मागधा - बन्दिभूतास्तेषां प्रेक्षा मागधप्रेक्षेति वा ?, भगवानाह - नायमर्थ समर्थो, व्यपगत कौतुकास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! !
'अत्थिणं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु इन्द्रमह इति वा, इन्द्रः - शक्रस्तस्य महः - प्रतिनियतदिवसभावी उत्सवः, स्कन्दमह इति वा, स्कन्दः - कार्त्तिकेयः, रुद्रमह इति वा, रुद्रः प्रतीतः, शिवमह इति वा, सिवो-देवताविशेषः, वैश्रमणमह इति वा, वैश्रमण:उत्तरदिग्लोकपालः, नागमह इति वा, नागो-भवनपतिविशेषः, यक्षमह इति वा भूतमह इति वा, यक्षभूती - व्यन्तरविशेषी, मकुनदमह इति वा, मकुन्दो - बलदेवः, कूपमह इति वा तडाकमह इति वा नदीमह इति वा हदमह इति वा पर्वतमह इति वा वृक्षमह इति वा चैत्यमह इति वा स्तूपमह इति वा ?, कूपादयः प्रतीताः, भगवानाह - नायमर्थ समर्थो, व्यपगतमहमहिमास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! !
३०८
'अत्थि णं भंते!' इत्यादि, सन्ति भदन्त ! उत्तरुकुरुषु कुरुषु शकटानीति वा, शकटानिप्रतीतानि, रथावा, रथाद्विविधा-यानरथाः सङ्गामरथाश्च तत्र सङ्गामरथस्य प्राकारानुकारिणी फलकमयी वेदिकाऽपरस्य तु न भवतीति विशेषः, यानानीति वा यानं -- गन्त्रयादि, युग्यानीति वा, युग्यं - गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरवेदिकोपशोभितं जम्पानं, गिल्लय इति वा, गिल्लिर्हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिल्लय इति वा, लाटानां यद् अड्डपल्लाणं रूढं तदन्यविषये थिल्लिरित्युच्यते, शिबिका इति वा, शिबिका - कूटाकाराच्छादितो जम्पानविशेषः, सन्दमाणिया इति वा, सन्दमाणिया - पुरुषप्रमाणो जम्पानविशेषः ?, भगवानाह - नायमर्थः, समर्थः पादविहारचारिणस्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा महिषा इति वा खरा इति वा घोटका इति वा ?, इह जात्या आशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा ?, भगवानाह - हन्त ! सन्ति, पुनस्तेषां मनुजानां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥ 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः गव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः - गिव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीघ्रमागच्छन्ति । 'अत्थिणं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु सिंहा इति वा, सिंहः - पञ्चाननः, व्याघ्रा इति वा, व्याघ्रः - शार्दूलः, वृका इति वा, द्वीपिका इति वा द्वीपिका - चित्रकाः, ऋक्षा इति वा, परस्सरा इति वा, परस्सरो - गण्डः, श्रृंगाला इति वा, बिडाला इति वा, शुनका इति वा, कालशुनका इति वा, कोकन्तिका इति वा, कोकन्तिकालुङ्कडिकाः, शशका इति वा, चिल्लला इति वा, चिल्लल - आरण्यकः पशुविशेषः ?, भगवानाह - हन्त ! सन्ति, न पुनस्ते परस्परस्या तेषां वा मनुजानां काञ्चिदाबाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org