SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० ३०७ भावः कर्म वा आभियोग्यं, 'व्यञ्जनाद् यपंचमस्य सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्यं येभ्यस्ते तथा हे श्रमण ! हे आयुष्मन् ! । 'अत्थि णं भंते!' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु मातेति वा पितेति वा भ्रातेति वा भगिनीति वा भार्येति वा सुत इति वा दुहितेति वा स्नुषेति वा?, तत्र माता - जननी पिता - जनकः सहोदरो - भ्राता सहोदरी - भगिनी वधूः -- भार्या सुतः पुत्रः सुता - दुहिता पुतरवधूः - स्नुषा, भगवानाह - हन्त ! अस्ति, तथाहि--या प्रसूते सा जननी, यो बीजं निषिक्तवान् स पिता विवक्षितः पुरुषः, सहजातो यो भ्राता एकमातृपितृकत्वात्, इतरा तस्य भगिनी, भोग्यत्वाद् भार्या, स्वमातापित्रोः स पुत्र इतरा दुहिता, स्वपुत्रभोग्यत्वात्स्नुषेति, 'नो चेवण'मित्यादि, न पुनस्तेषां मनुजानां तीव्रं प्रेमरूपं बन्धनं समुत्पद्यते, तथा क्षेत्रस्वाभाव्यात् प्रतनुप्रेमबन्धनास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'अत्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु अरिरिति वा शत्रु वैरीति वा-जातिनिबद्धवैरोपेतः, घातक इति वा, घातको योऽन्येन घातयति, वधक इति वा, वधकः - स्वयं हन्ता, प्रत्यनीक इति वा, प्रत्यनीकः - छिद्रान्वेषी, प्रत्यमित्र इति वा, प्रत्यमित्रो यः पूर्वं मित्रं भूत्वा पश्चाद मित्रो जातः ?, भगवानाह - नायमर्थ समर्थो, व्यपगतवैरानुबन्धास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! ।। ‘अस्थि णं भंते' इत्यादि, अस्ति सभदन्त ! उत्तरकुरुषु कुरुषु मित्रमिति वा मित्रं - स्नेहविषयः, वयस्य इति वा - समानवया गाढतरस्नेहविषयः, सखा इति वा-समानखादनपानो गाढतमस्नेहस्थानं, सुहृदिति वा, सुहृत् - मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च, साङ्गतिक इति वा, साङ्गतिकः-सङ्गतिमात्रघटितः ?, भगवानाह - नायमर्थ समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! । - ‘अत्थि णं भंते !’ इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु 'आबाहा इति वा' आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाहः - विवाहात्पूर्वस्ताम्बूलदानोत्सवः, वीवाहा इति वा, वीवाह :परिणयनं, यज्ञाइति वा, यज्ञाः - प्रतिदिवसं स्वस्वेष्टदेवतापूजा:, श्राद्धानीति वा, श्राद्धं पितृक्रिया, स्थालीपाका इति वा, स्थालीपाकः - प्रतीतः, मृतपिण्डनिवेदनानीति वा मृतेभ्यः श्मशाने तृतीयनमादिषु दिनेषु पिण्डनिवेदनानि मृतपिण्डनिवेदनानि, चूडोपनयनानीति वा, चूडोपनयनंशिरोमुण्डनं, सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं - गर्भस्थापनं ?, भगवानाह - नायमर्थ समर्थः, वोयपगतावाहवीवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! । 'अत्थिणं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु नटप्रेक्षेति वा नटा-नाटकानां नाटयितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति वा, नृतयन्ति स्म नृत्या- नृत्यविधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षा इति वा, जल्लप्रेक्षेति वा, जल्ला -वरत्राखेलकाराजस्तोत्रपाठका इत्यपरे तेषां प्रेक्षा जलप्रेक्षा, मल्लप्रेक्षेति वा, मल्लाः- प्रतीताः, मौष्टिकप्रेक्षेति वा, कथकाः प्रतीताः, प्लवकप्रेक्षेति वा, प्लवका ये उत्प्लुत्य गर्त्तादिकं झम्पामिर्लङ्घयन्ति नद्यादिकं वा भन्ति तेषां प्रेक्षा प्लवकप्रेक्षा, लासकप्रेक्षेति वा, लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डास्तेषां प्रेक्षा लासकप्रेक्षा, आख्यायकप्रेक्षेति वा ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां प्रेक्षा आख्यायकप्रेक्षा, लप्रेक्षेति वा, लङ्खा ये महावंशाग्रमारुह्य नृत्यन्ति तेषां प्रेक्षा लङ्खप्रेक्षा, मङ्खप्रेक्षेति वा, ये चित्रपट्टिकादिहस्ता भिक्षां चरन्ति ते मङ्कास्तेष प्रेक्षा मङ्खप्रेक्षा, 'तूणइल्लपेच्छाइ वा' इति तूणइल्ला - तूणाभिधानवाद्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy