________________
३०६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ गौतम! नायमर्थ-समर्थो, यद्-यस्मान्नेच्छितकामगामिनःन इच्छितं-इच्छाविषयीकृतं नेच्छितं, नायं नकिन्तु नशब्दइत्यत्रा (ना)देशाभावोयथा नैके द्वेषस्यपर्याया'इत्यत्र, नेच्छितं-इच्छाया अविषयीकृतं कामस्वेच्छयागच्छन्तीत्येवंशीला नेच्छितकामगामिनस्तेमनुजाःप्रज्ञप्ता हे श्रमण! हे आयुष्मन्!
'अस्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु 'असयः' अस्युपलक्षिताः सवकाः पुरुषाः,मषीति वा मष्युपलक्षितालेखनजीविनः, वृषिरितिकृषिकर्मोपजीविनः, पणीति पणितंपण्यमिति वाकयविक्रयोपजीविनः, वाणिज्यमितिवाणिज्यकलोपजीविनः?,भगवानाहगौतम ! नायमर्थ समर्थो, व्यपगतासिमषीकृषिपण्यवाणिज्यास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! । 'अस्थिणंभंते' इत्यादि, अस्तिभदन्त! उत्तरुकुरुषुकुरुषु हिरण्यमिति वा-हिरण्यंअघटितंसुवर्णं कांस्यं-कांस्यभाजनजाति दूस'मितिवा दूष्यंवजाति, मणिमौक्तिक-शङ्खशिलाप्रवालसत्सारस्वापतेयानि वा, तत्र मणिमौक्तिकशशिलाप्रवालानि प्रतीतानि सद्-विद्यमानं सारं-प्रधानंस्वापतेयं-धनंसत्सारहस्वापतेयं, भगवानाह-हन्ता! अस्ति, 'नो चेवण मित्यादि, न पुनस्तेषां मनुजानां तद्विषयस्तीव्रोममत्वभावः समुत्पद्यते, मन्दरागादितया विशुद्धाशयत्वात्
__ 'अस्थिणं भंते!' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु राजेति वा राजा-चक्रवर्ती बलदेववासुदेवो महामाण्डलिकोवायुवराजइतिवा-उत्थिताशनःईश्वरो-भोगिकादि, अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इत्येके, तलवर इति वा, तलवरो नाम परितुष्टनरपतिप्रदत्तरलालातसौवर्णपट्टविभूषितशिराः, कौटुम्बिकइतिवा, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, माडम्बिक इति वा, यस्य प्रत्यासन्नं ग्रामनगरादिकमपरं नास्ति तत्सर्वतश्छिन्नं जनाश्रयविशेषरूपं मडम्बं तस्याधिपतिमांडम्बिकः,इभ्यइतिवा, इभो-हस्तीतप्रमाणंद्रव्यमहतीतीभ्यः, यत्सत्कपुञ्जीकृतहिरण्यरलादिद्रव्येणान्तरितो हस्त्यपि नश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रेष्ठीति वा श्रीदेवताऽध्यासितसौव्गपट्टिभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी, सेनापतिरिति वा हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुः सेनापति, सार्थवाह इति वा। ॥१॥ “गणिमं रिमं मेजं पारिच्छंचेवदव्वजायं तु।
धेतूणं लाभत्थं वच्चइ जो अन्नदेसंतु॥ ॥२॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे।
सो सत्यवाहनामंधणो ब्व लोए समुव्वहइ।। एतल्लक्षणयुक्तः सार्थवाहः, भगवानाह--गौतम! नायमर्थसमर्थो, व्यपगतर्द्धिसत्काराव्यपगता ऋद्धि-विभवैश्वर्यं सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथाउत्तरकुरुवास्तव्यामनुजाः प्रज्ञप्ताहे श्रमण! हेआयुष्मन् ! । अस्थिणं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु दास इति वा, दासः-आमरणं क्रयक्रीतः,प्रेष्य इति वा,प्रेष्यः-प्रेषणयोग्य, शिष्य इति वा, शिष्यःउपाध्यायस्योपासकः, भृतक इतिवा, मृतको-नियतकालमधिकृत्य वेतनेन कर्मकरणाय दृतः, 'भागिल्लए तिवाभागिक इतिवा, भागिको नाम द्वितीयांशस्य चतुर्थाशस्य वा ग्राहकः, कर्मकारपुरुष इति वा, कर्मकारो लोहारादि कर्मकारः ?, भगवानाह-गौतम ! नायमर्थ समर्थो, व्यपगताभियोग्यास्ते मनुजाः प्रज्ञप्ताः, अभिमुखं कर्मसु युज्यते व्यापार्यत इति वाऽभियोग्यस्तस्य For Private & Personal Use Only
www.jainelibrary.org
Jain Education International