________________
प्रतिपत्तिः-३, दीव०
३०३
भिवदनाः, तता छवी-छविमन्त उदात्तवर्णया सुकुमारया च त्वचा युक्ता इति भावः ।
"निरायंकउत्तमपसत्थअइसेसनिरुवमतणू' निरातङ्का-नीरोगा उत्तमा-उत्तमलक्षणोपेता अतिशेषा-कर्मभूमकमनुष्यापेक्षयाऽतिशायिनी अत एवनिरुपमा-उपमारहिता तनुः-शरीरं येषां ते निरातकोत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-'जल्लमलकलंकसेयरयदोसवञ्जियसरीरनिरुवलेवा' यातिच लगतिचेति जल्लः-पृषोदरादित्वान्निष्पत्ति स्वल्पप्रयत्लापनेयः सचासौमलश्चजल्लमलःसचकलकंच-दुष्टतिलकादिकंचित्रादिकंवास्वेदश्च-प्रस्वेदः रजश्च रेणुर्दोषो-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं च-मूत्रविष्ठाद्युपलेपरहितं शरीरं येषांतेजल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, 'छायाउज्जोवियंगमंगा' छायया-शरीरप्रभया उद्दयोतितमङ्गमङ्गम्-अङ्गप्रत्यङ्गं येषां ते तथा, 'अनुलोमवाउवेगा' अनुलोमः अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदरमध्यप्रदेशा इति भावः, आह च मूलटीकाकारः ।
“उदरमध्यप्रदेशेवायुगुल्मोयेषंतेषामनुलोमोवायुवेगोन भवति, तदभावाच्च तेषामनुलोमो भवति वायुवेगो मिथुनाना"मिति, 'कग्रहणी' इति कङ्कः-पक्षिविशेषस्तस्येव ग्रहणिगुदाशयो नीरोगवर्चस्कतया येषांते करग्रहणयः, कवोयपरिणामा' कपोतस्येव-पक्षिविशेषस्य परिणामआहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जाठराग्नि पाषाणलवानपि जरयतीति श्रुति, एवं तेषामप्यत्यर्गलाहारग्रहणेऽपिनजातुचिदप्यजीर्णदोषाभवन्तीति, 'सउणिपोसपिळूतरोरुपरिणया' इति शकुनेरिव-पक्षिण इव पुरीषोत्सर्गे निर्लेपतया 'पोसंति पोसः-अपानदेशः 'पुसउत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा लघुपरिणामतया पृष्ठं च प्रतीतं अन्तरे चपृष्ठोदरयोरन्तराले पावित्यर्थ ऊरू चेति द्वन्द्वः ते परिणता येषां ते शकुनिपोसपृष्ठान्तरोरुपरिणताः, निष्ठान्तस्यपरनिपातः सुखादिदर्शनात्, विग्गहियउन्नयकुच्छी विग्रहिता-मुष्टिग्राह्या उन्नता चकुक्षिर्येषांतेविग्रहितोन्नतकुक्षयः, वज्रर्षभनाराचंसंहननंयेषांतेवज्रर्षभनाराचसंहननाः, तथा समचतुरंन च तत् संस्थानं च समचतुरसंस्थानं तेन संस्थिताः समचतुरस्रंसंस्थासंस्थिताः, षडधनुःसहोच्छ्रिताः-त्रिगव्यूतप्रमाणोच्छ्रयाः, तथा तेषामुत्तरकुरुवास्तव्यानां मनुष्याणां द्वे पृष्ठकरण्डके षट्पञ्चाशे-षटपञ्चाशदधिके प्रज्ञप्ते तीर्थकरगणधरैः।
'ते णं मणुया' इत्यादि, ते उत्तरकुरुवास्तव्या मनुजाः प्रकृत्या-स्वभावेन भद्रका:अपरानुपतापहेतुकावाङ्मनश्चेष्टाः, तथा प्रकृत्या-स्वभावेन न तु परोपदेशतः परेभ्यो भयतो वोपशान्ताः, तथा प्रकृत्या-स्वभावेन प्रतनवः-अतिमन्दीभूताः क्रोधमानमायालोमा येषां ते प्रकृतिप्रतनुक्रोधमानमायालोभाः, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमार्दवसंपन्ना न कपटमार्दवोपेताः 'अल्लीणा' इति आ-समन्तात्सर्वासु क्रियासु लीना-गुप्ता आलीना नोल्वणचेष्टाकारिण इत्यर्थ, भद्रकाः-सकलतत्क्षेत्रोचितकल्याणभागिनः विनीता- बृहत्पुरुषविनयकरणशीलाः अल्पेच्छा-मणिकनकादिविषयप्रतिबन्धरहिता अत एवासन्निधि- सञ्चया-न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा, 'विडिमंतरपरिवसमा' विडिमान्तरेषुशाखान्तरेषु प्रासादाद्याकृतिषु परिवसनं-आकालमावासो येषां ते विडिमान्तरपरिवसनाः जहिच्छि-यकामकामिणो' यथेप्सितान्मनोवाञ्छितान्कामान्-शब्दादीन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org