________________
३०४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८५
कामयन्त इत्येवंशीला यथेप्सित- कामकामिनः, ते उत्तरकुरुवास्तव्या णमिति पूर्ववत् मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
‘तेसि णं भंते!' इत्यादि, तेषां भदन्त ! उत्तरकुरुवास्तव्यानां मनुष्याणां 'केवइकालस्स' त्ति सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थ समुत्पद्यते ? - आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह - गौतम ! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्ठी अष्टमभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते ॥ ' ते णं भंते!' इत्यादि, ते उत्तकुरुवास्तव्या भदन्त ! मनुष्याः किमाहारमाहारयन्ति ?, भगवानाह - गौतम ! पृथिवीपुष्पफलाहाराः पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
'तेसिणं मंते' इत्यादि, तस्या भदन्त ! पृथिव्याः कीश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम ! ' से जहा नामए' इत्यादि, तत् - लोके प्रसिद्धं यथा नाम 'ए' इति वाक्यालङ्कारेऽखण्डमिति वा, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्दो विकल्पने, एवं सर्वत्र, गुड इति वा शर्करा इति वा, इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्यण्डिका इति वा, मत्स्यण्डी - खण्डशर्करा, पर्पटमोदक इति वा बिसकन्द इति वा पुष्पोत्तरेति वा पद्मोत्तरेति वा विजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, पर्प्पटमोदकादयः खाद्यविशेषा लोकतः प्रत्येतव्याः ।
'चाउरक्केवा गोखीरे' इत्यादि वा, चातुरक्यं - चतुः स्थानपरिणामपर्यन्तं तचैवं गवां पुण्ड्रदेशोद्मवेक्षुचारिणीनामनातङ्कानां कृष्णानां यत्क्षीरं तदन्यान्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते, तत्क्षीरमप्येवंभूताभ्योऽन्याभ्यस्तत्क्षीरमप्यन्याभ्य इति चतुःस्थानपरिणामपर्यन्तं, एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपतीतं - खण्डगुडमत्स्यण्डिका उपनीता यत्र तत्तथा, सुखादिदर्शनान्निष्ठान्तस्य परनिपातः, खण्डादिभि सुरसतां प्रापितमिति भावः, 'मंदग्गिकढिए' मन्दमग्निना कथितं मन्दाग्नकथितम्, अत्यग्निकथितं हि विरसं विगन्धादि च भवतीति मन्दग्रहणं, वर्णाद्यतिशयप्रतिपादनार्थमेवाह वर्णेन समाथ्यार्दतिशायिना अन्यथा वर्णोपादानननैरर्थक्यापत्तेः उपपेतं युक्तं, एवं गन्धेन रसेन स्पर्शेन चातिशायिनोपपेतं, एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूपः पृथिव्या आस्वादः ?, भगवानाह - गौतम ! नायमर्थः समर्थः, तस्याः पृथिव्या इति - गुडखण्डशर्करादेरिष्टतर एव, यावत्करणात् 'कंततराए चेव पियतराए 'चेव मणामतराए चेवे 'ति परिग्रहः, आस्वादः प्रज्ञप्तः ।
पुष्पफलादीनामास्वादनं पृच्छन्नाह - 'तेसि णं भंते! पुप्फफलाण' मित्यादि, तेषां कल्पपादपसत्कानां पुष्पफलानां कीश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम ! 'तेसिणं भंते! पुप्फफलाण' मित्यादि. तेषां कल्पपादपसत्कानां पुष्पफलानां कीद्दश आस्वादः प्रज्ञप्तः ?, भगवानाह - गौतम 'से जहा नामए' इत्यादि तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधिपतिरपि प्रायते तत आहचतुरन्तचक्रवर्त्तिनः - चतुर्षु अन्तेषु त्रिसमुद्रहिमवत्परिच्छिन्नेषु गम्यते, एवं गन्धेन रसेन स्पर्शनोपपेतं आस्वादनीयं आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसप्रकर्षमधिकृत्य दीपनाथमग्निवृद्धिकरं, दीपयति हि जाठराग्निमति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साह वृद्धिहेतुत्वात्, मदनीयं मन्थथजननात्, बृंहणीयं धातूपचयकारित्वात्, सर्वागीणन्द्रयाणि गात्रं च प्रह्लादयतीति वन्द्रियगात्रप्रह्लादनीय, वैशद्येन तव्यह्लादहेतुत्वात्, एवमुक्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org