SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८५ तले - हस्ततले तालु - काकुदं जिह्वा च रसना येषां ते हुतवहनिर्ध्यातधौततप्ततप-नीयरक्ततलतालुजिह्वाः 'गरुलाययउज्जुतुंगनासा' गरुडस्येवायता दीर्घं ऋज्वी अवक्र तुङ्गा- उन्नता तासा नासिका येषां ते गरुडायतऋजुतुङ्गनासाः 'कोकासियधवलपत्तलच्छा' कोकासिते- पद्मवद्विकसिते धवले क्वचिद्देशे पत्रले - पक्ष्मवती अक्षिणी - लोचने येषां ते कोकासितधवलपत्राक्षाः, एतदेव स्पष्टयति 'विप्फालियपुंडरीयनयणा' विस्फारितं - रविकिरणैर्विकासितं यत्पुण्डरीकं-सितपद्मं तद्वन्नयने येषां ते विस्फारितपुण्डरीकनयनाः, कचित् 'अवदालियपुंडरीयनयणा' इति पाठस्तत्रापि अवदालि- रविकिरणैर्विकासितमिति व्याख्येयं, 'आणामियचावरुइलतणुकसिणनिद्धभुया' आनामितं - ईषन्नामितमारोपितमिति भावः यच्चापंधनुस्तद्द रुचिरे - संस्थानविशेषभावतो रमणीये तनू-तनुके श्लक्ष्णपरिमितवालपङ्कयात्मकत्वात् कृष्णे - परमकालिमोपेते स्निग्धे स्निग्धच्छाये ध्रुवौ येषां ते आनामितचापवद् रुचिरे कृष्णाभ्रराजीव संस्थिते संगते - यथोक्तप्रमाणोपपन्ने आयते - दीर्घे सुजाते- सुनिष्पत्रे जन्मदोषरहितत्वाद् भ्रुवौ येषां ते तथा, कवचत्पनुरेवं पाठः'आणामियचावरुइलकिण्हब्भराइतणुकसिणनिद्धभुमया' तत्रानामितचापवद् रुचिरे - मनोज्ञे कृष्णाभ्रराजीव- कालमेघरेखेव तनू-तनुके कृष्णे-काले स्निग्धे सच्छाये भ्रुवौ येषां ते तथा । ‘आलीणपमाणजुत्तसवणा' आलीनौ न तु टप्परौ प्रमाणयुक्तौ - प्रमाणोपेतौ श्रवणौ-कर्णौ येषां ते आलीनप्रमाणयुक्त श्रवणाः, अत एव 'सुसवणा' शोभनश्रवणाः 'पीणमंसलकवोल देसभागा' पीनौ - अकृशौ यतो मांसलौ - उपचिती कपोलदेशौ - गण्डभागौ मुखस्य देशभागौ येषां ते पीमांसलकपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलवयवा इत्यर्थः पीना - मांसलाः कपोलदेशभागा येषां ते पीनमांसलकपोलदेशभागाः । 'निव्वणसमलहमचंदद्धसमनिडाला' निर्व्रणं विस्फोटकादिक्षतरहितं समं - अविषमं अत एव लष्टं-मनोज्ञं मृष्टं-मसृणं चन्द्रार्द्धसमं- शशधरसमग्रविभागस ६सं ललाटं - अलकं येषां ते निर्व्रणसमलष्टचन्द्रार्द्धसमललाटाः, सूत्रे 'निडाले 'ति प्राकृतलक्षणवशात्, 'उडुवइपडिपुण्णसोमवयणा' प्राकृतत्वात्पदव्यत्ययः, प्रतिपूर्णोडुपतिरिव - सम्पूर्णचन्द्र इव सोमं - सश्रीकं वदनं येषां ते प्रतिपूर्णोडुपतिसोमवदनाः, 'घणनिचियसुबद्धलक्खणुन्नयकूडागारनिहपिंडियसिरा' घनं-अतिशयेन निचितं घननिचितं सुष्ठु - अतिशयेन बद्धानि - अवस्थितानि लक्षणानि यत्र तत् सुबद्धलक्षणं, उन्नतं - मध्यभागे उच्चं यत्कूटं तस्याकारो - मूर्त्तिस्तन्निभमुन्नतकूटाकारसदृशमिति भावः पिण्डितं - स्वकर्म्मणा संयोजितं शिरो येषां ते घननिचितसुबद्धलक्षणोन्नतकूटाकारनिभपिण्डितशिरसः 'छत्ताकारुत्तमंगदेसा छत्राकार उत्तमाङ्गरूपो देशो येषां ते छत्राकारोत्तमाङ्गदेशाः 'दाडिमपुष्फष्पगासतवणिज्जसरिसनिम्मलसुजायकेसंतकेसभूमी' दाडिमपुष्पप्रकाशादाडिमपुष्पप्रतिमास्पनीयसध्शाश्च निर्मला-आगन्तुकस्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च केशोत्पत्तिस्थानभूता मस्तकत्वग् येषां ते दाडिमपुष्पप्रकाशतपनीयसद्दशनिर्मलसुजातकेशान्तकेशभूमयः 'सामलिबोंडघणछोडियमिउविसयपसत्थसुहुमलक्खणसुगंधसुन्दरभुयमोयगभिनीलकज्जलपहट्टभमरगणनिकरंबनिचियकुंचिय पाहिणायत्तमुद्धसिरया' शाल्मकी - वृक्षविशेषः सच प्रतीत एव तस्य बोण्डं-फलं तद्वच्छोटिता अपि घनं - अतिशयेन निचिताः शाल्मलीबोण्डधननिचितच्छोटिताः, स्नेहकेशपाशं न कुर्वन्ति परिज्ञानाभावात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy