________________
२९७
प्रतिपत्तिः-३, दीव० ___'आयंबतलिणसुइरुइलनिद्धनखा' आताम्रारा-ईषद्रक्ताः तलिनाः-प्रतलाः शुचयःपवित्रा रुचिरा-दीप्ताः स्निग्धाःअरूक्षा नखाः-कररुहा येषां ते तथा आतम्रतलिनशुचिरुचिरस्निग्धनखाः, 'चंदपाणिलेखा' चन्द् इव चन्द्राकारा पाणौ रेखा येषां ते चन्द्रपाणिरेखाः, एवं सूर्यपाणिरेखाः शङ्खपाणिरेखाश्चक्रपाणिरेखा दिकसौवस्तिकौ-दिकप्रोक्षको दक्षिणावर्तःस्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते दिकसौवस्तिकपाणिरेखाः, एतदेवानन्तरोक्तं विशिषणपञ्चकं तप्रशस्तताप्रकर्षप्रति- पादनाय सङ्ग्रहवचनेनाह-चन्द्रसूर्यशङ्खचक्र दिक्सौवस्तिकरेखाः, एतदनन्तरं कवचिदेवं पाठः-रविससि संखवरचक्कसोस्थियविभिन्न सुवियइयपणिरेहा व्यकतो नवरं विभक्ता-विभगवत्यः सुविरचिताः-सुष्ठ कृतास्वकीयकर्मणा अनेगवरलवणुत्तमपसत्थसुइरइयपाणिलेहा' अनेकैः-अनेकसङ्ख्यैवरैः-प्रधानैर्लक्षणै-रुत्तमाः प्रशस्ताः-प्रशंसास्पदीभूताःशुचयः-पवित्रा रचिताः-स्वकर्मणा निष्पादिताः पाणिरेखायेषांते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखाः, 'वरमहिसवरा- हसिंहसलउसभनागवरपडिपुण्णविउलखंधा' वरमहिषः-प्रधानसौरभेयः वराहः-शूकरः सिंहः-केशरी शार्दूलो व्याघ्रः ऋषभो-वृषभः नागवरः-प्रधानो गजः, एषामिव प्रतिपूर्ण-स्वप्रमाणेनाहीनो विपुलो-विस्तीर्णस्कन्धःअंशदेशो येषां ते वरमहिषवराहसिंहशार्दूलवृषभनागवरप्रतिपूर्णविपुलस्कन्धाः।
'चउरंगुलसुप्पमाणकंबुवरसरिसगीवा' चतुरङ्गुलं-स्वाङ्गुलापेक्षया चतुरङ्गुलप्रमितं सुष्टु-शोभनं प्रमाणं यस्याः सा चतुरङ्गुलसुप्रमाणा कम्बुवरसद्दशी-उन्नततया वलियोगेन च प्रधानशङ्खसन्निभाग्रीवा येषांते चतुरङ्गुलसुप्रमाणकम्बुवरसध्शग्रीवाः ‘मंसलसंठियसर्लविपुलहणुया' मांसलं-उपचितमांसंसम्यकस्थितंसंस्थितं विशिष्टस्थानमित्यर्थप्रशस्तंप्रशस्यलक्षणोपेतत्वात शार्दूलस्येव-व्याघ्रस्येव विपुलं-विस्तीर्णंहनुकंयेषांतेतथा, 'अवट्ठियसुविभत्तमंसू अवस्थितानिअवर्द्धिष्णूनि सुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतयाऽद्भुतानि श्मश्रूणि-कूर्चकेशा येषां तेऽवस्थितसुविभक्तचित्रश्मश्रवः 'ओयवियसिलप्पवालबिंबफलसन्निभाधरोहा'
ओयवियं-परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थ बिम्बफलं-गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठ:--अधस्तनो दन्तच्छदो येषां ते तथा।
'पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरं-अकलङ्कं यत् शशिलकलं-चन्द्रखण्ड विमल-आगन्तुकमलरहित निर्मलः-स्वभावोत्थमलरहितोयः शङ्खः कोक्षीरफेनःप्रतीतः कुन्दं कुन्दकुसुमंदकरज-उदककणाःमृणालिका-बिशं, एतद्वद्धवलादन्तश्रेणिर्येषांते पाण्डुरशशिशकलविमलनिरमलगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणयः अकंडदंता' इतिअखण्डाः-सकला दन्तायेषांतेअखण्डदन्ताः 'अप्फुडियदंता' अस्फुटिता-अजर्जरा राजिरहितादन्तायेषां तेअस्फुटितदन्ताः, तथा सुजाता-जन्मदोषरहिता दन्ता येषां ते सुजातदन्ताः, तथाऽविरला-धना दन्ता येषां ते अविरलदन्ताः ।
_ 'एगदंतसेढीविव अनेगदंता' एकाकारा दन्तश्रेणिर्येषां ते तथा ते इव परस्परानुपलक्ष्यमाणदन्तविभागत्वाद् अनेके दन्ता येषां ते एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकारदन्तपङ्कय इव लक्ष्यन्त इति भावः, 'हुयवहनिद्धंतधोयतत्ततवणिज्जरत्ततलतालुजीहा' हुतवहेन-अग्निनानितिंसद्यधौतं-शोधितमलं तप्तं तपनीयं--सुवर्णविशेष-स्तद्वद् रक्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org