________________
२९६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ णोचितौ पाश्वौं येषां ते सङ्गतपाअित एव सुन्दरपाःि 'सुजायपासा' इति सुनिष्पन्नपार्वाः 'सियमाइयपीणरइयपासा' मितं-परिमितंयथा भवति देहानुसारेणेत्यर्थ :आयतौ-दीक़ पीनौउ पचितौ मांसलाविति भावः रचितौ-स्वस्वनामकर्मोदयनिर्वर्तितौ रतिदौ वा-रम्यौ पाश्वौं येषां तेतथा, 'अकरंडयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी' अविद्यमानं मासलतयाऽनुपलक्ष्यमाणं करण्डकं-पृष्ठवंशास्थिकंयस्य देस्य सोऽकरण्डकस्तं कनकस्येव रुचको-रुचिर्यस्य स कनकरुचिस्तंनिर्मलं-स्वाभावाविकागन्तुकमलरहितं सुजातं-बीजाधानादारभ्य जन्मदोषरहितं निरुपहतं-ज्वरादिदंशाधुपद्रवरहितं देहं धारयन्तीत्येवंशीला अकरण्डककनकरुचकनिर्मलसुजातनिरुपहतदेहधारिणः ।
'कणगसिलायलुज्जलपसत्थसमतलोवचियविच्छिन्नपिहुलवच्छा' कनकशिलातलवदुज्ज्वलं च-निर्मलं प्रशस्तं च अतिप्रशस्यं समतलं-न विषमोन्नतं उपचितंमांसलं विस्तीर्णम्-ऊोधोऽपेक्षया पृथुलं दक्षिणोत्तरतो वक्षो येषां ते कनकशिलातलोज्ज्वलप्रशस्तसमतलोपचितविस्तीर्णपृथुलक्षसः ‘सिरिवच्छंकियवच्छा' इति श्रीवृक्षणाङ्कितं-लाञ्छितं वक्षो येषांतेश्रीवृक्षलाञ्छितवक्षसः 'जुगसन्निभपीणरइयपीवरपउट्ठसंठियसुसिलिट्ठविसिट्टघणथिरसुवद्धसंधी पुरवरफलिहवट्टियभुया युगसन्निभौ-वृत्ततयाआयततयाचयूपतुल्यौपीनौ-उपचितौ रतिदौ-पश्यतां दृष्टिसुखदौ पीवरप्रकोष्ठौ-अकृशंकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुश्लिष्टाः-संगताः विशिष्टाः-प्रधानाः घनानिबिडाः स्थिरा-नातिश्लथाः सुबद्धाः-स्नायुभि सुष्टु नद्धाः सन्धयःसन्धानानि ययोस्तीतथा पुरवरपरिघवत्-महानगरार्गलावद् वर्तितौचबाहूयेषांते युगसन्निभपीनरतिदपीवरप्रकोष्ठसंस्थितसुश्लिष्टविशिष्टयनस्थिरसुबद्धसन्धिपुरवरपरिघवर्तितभुजाः, पाठान्तरं 'जुगसन्निभपीणरइयपउट्ठसंठियोवचियघणथिरसुबद्धसुनिगूढपव्वसंधी युगसन्निभौ वर्तुलत्वेन पीनौ रतिदौ प्रकोष्ठौ येषांतेतथा, तथा संस्थिताः-सम्यस्थिता उपचिता-मांसला घना-निबिडाः स्थिरा-अचाल्याः, कुतः ? इत्याह-सुबद्धा-ढबन्धनबद्धा निगूढा मांसलत्वादनुपलक्ष्याः पर्वसन्धयो हस्तादिगता येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः।
'भुयगीसरविपुलभोगआयाणफलिहउच्छूढदीहबाहू' भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो देहो भुजगेश्वरविपुलभोगः तथाआदीयते-द्वारस्थगनार्थंगृह्यत इत्यादानसचासौ परिघश्च आदानपरिघः ‘उच्छूढ'त्ति अवक्षिप्तः अर्गलास्थानान्निष्कासितो द्वारपृष्ठभागे दत्तइत्यर्थ, ततः पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपातः प्राकृज्ञत्वात्, भुजगेश्वरविपुलभोगश्च आदानपरिघावक्षिप्तश्च ताविव दीर्थी बाहू येषां ते तथा।।
_ 'रत्ततलोवतियमांसलसुजायअच्छिद्दजालपाणी' रक्ततलौ लोहिततलौ अवपतितौक्रमेण हीयमानोपयौ मृदुको-कोमलौ मांसलौ सुजाती-जन्मदोषरहितौ अच्छिद्रजालौअङ्गुल्यन्तराल समूहरहितौ पाणी-हस्तौ येषां ते तथा, पाठान्तरं 'रत्ततलोवइयमंसलसुजायपसत्थलक्खण-अच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ-शउभचिह्नाविति व्याख्येयं, शेषं तथैव, 'पीवरकोमल-वरंगुलीया' इति पीवरा-स्वशरीरानुक्रमोपचयाः कोमला-मृदवो वराः-प्रशस्तलक्षणोपेता अङ्गुलयो येषां ते पीवरकोमलवराङ्गुलिकाः, पाठान्तरं 'पीवरवट्टियसुजायकोमलवरंगुलीया' व्यक्तम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org